This page has been fully proofread once and needs a second look.

3
 
96
 
MADHURAVIJAYAM
 
स दुग्धवाहिनीवी चिमारुताधूतशाखिनि ।

विरिञ्चिनगराभ्यर्णे न्यवेशयदनीकिनीम् ॥ ५० ॥
 

 
अथ सन्नद्धसैन्यस्तं न्यरुन्ध द्रमिडाधिपम् ।

घनीकृतहिमानीको हेमन्त इव भास्करम् ॥ ५१ ॥
 

 
संवर्तमारुनाताक्षिप्तसमुद्रद्वयसन्निमौ ।
भौ ।
व्यूहौ द्रमिडकर्णाटनाथयोः संनिपेततुः ॥ ५२ ॥
 

 
पादातप्रतिराप्तपादातं हास्तिकाक्रान्तहास्तिकम् ।

चीश्वीयमिलिताश्चीवीयमासीद।दायोधनं तयोः ॥ ५३ ॥
 

 
असह्यैत्तत्र त्रीस्तत्र वीराणां सिंहनादविजृम्भणैः ।

दिगन्तदन्तिनो मुक्तफीट्कारं मुमुहुर्मुहुः ॥ ५४ ॥
 

 
रजस्तमसि वीरास्त्रसङ्घसंघट्टनोत्थितैः ।

बभ्रे स्कुफुलिङ्गसंघातैः खद्योतनिवहद्युतिः ॥ ५५ ॥
 

 
संग्रामदेवतापाङ्गविभ्रमभ्रान्तिदायिनः ।

मिथो धनुर्धरैर्मुक्ताः पेतुः शातमुखाः शराः ॥ ५६ ॥
 

 
क्षतजार्द्राः प्रवीराणां प्रेङ्खन्त्यः खड्गलेखिकाः ।

जिघत्सतः कृतान्तस्य जिह्वा इव <error>विरोजिरे</error><fix>विरेजिरे</fix> ॥ ५७ ।
 

 
खास्त्रापगासु परितो निस्सृतासु सहस्रशः ।

भटानां भल्लनिर्लूनैरम्भोजायितमाननैः ॥ ५८ ॥
 

 
कृपाणकृत्तान् वेतण्डगुण्डादण्डानिवाभितः।

भुजङ्गशङ्किनो गृध्रा जगृहुर्भूभुजां भुजान् ॥ ५९ ॥