This page has not been fully proofread.

MADHURAVIJAYAM
 
प्रायः स्वनाशमुत्प्रेक्ष्य भाविनं रेणुसंचयः
रुरोध सिन्धुरेन्द्राणां मदधार।सिरामुखम् ॥ ४० ॥
 
घर्मांशुकिरणग्रासात् परितप्त इवाधिकम् ।
अगाहत महाम्भोधी नवनीक्षोदसंचयः ॥ ४१ ॥
 
वितेनिरे करेणूनां करशीकररणेवः ।
घनस्य सेनारजसः करकाकारचातुरीम् ॥ ४२ ॥
 
ततः सेनागजेन्द्राणां कर्णताला निलोद्धता ।
अवार्यत रजोराजिः करशीकरदुर्दिनैः ॥ ४३ ॥
 
अथ कल्पान्तसंभिन्नसप्ताम्भोनिविसन्निभम् ।
क्रमात् प्रयातुमारे स्फारकोलाहलं बलम् ॥ ४४ ॥
 
तुरङ्गखुरकुद्दालदलितादपि भूतलात् ।
न पुनः पांतुरुत्तस्थौ महेभमदंवृष्टिनिः ॥ ४५ ॥
 
तं
 
तुभद्राकडोलशीकरासङ्गशीतलः ।
आनुकूल्येन यात्रार्थमाचकर्षेव मारुतः ॥ ४६ ॥
 
अथ लकर्णाटः पञ्चषैरेव वासरैः ।
प्रापत् कम्पमहीपालः कण्टकाननपट्टणम् ॥ ४७ ॥
 
स तत्र दिवसान् कांश्चिदतिवाह्य महाबलः ।
अभिषेणयितुं चम्पमुपाक्रमत कालवित् ॥ ४८ ॥
 
प्रसृतैस्तच्च धूलिस्तोमैः क्षीरतरङ्गिणी ।
 
की चम्पक्षितीन्द्रस्य साकं कलुषतामगात् ॥ ४९ ॥
 
95