This page has not been fully proofread.

94
 
MADHURAVIJAYAM
 
स तत्र तल संभृतैः सैन्यैः सङ्ख्यातिलङ्घिभिः ।
अन्तर्हिततदाभोगमत्यगाद् गृहगोपुरम् ॥ ३० ॥
 
तमञ्जलिंभिरानम्रकिरीटतलकीलितैः ।
प्रणेमुर्धरणीपालास्तुरङ्गस्कन्धवर्तिनः ॥ ३१ ॥
 
आलोकशब्दमुखरैरस्याग्रे पादचारिभिः ।
चोलकेरलपाण्ड्याद्यैर्वेत्रित्वं प्रत्यपद्यत ॥ ३२ ॥
 
आचारलाजैः पौराणां पुरन्ध्रयस्तमवाकिरन् ।
अम्भसां विन्दुभिः शुम्रेरभ्रमाला इवाचलम् । ३३ ॥
 
अथ कम्पमहीपालः कम्पयन् द्विषतां मनः ।
प्राष्टित दिशं भेजे मलयाचलमुद्रिताम् ॥ ३४ ॥
 
स नयन् महतीं सेनां व्यरुचद् वीरकुञ्जरः ।
पयोदमालामाकर्षन् पौरस्त्य इव मारुतः ॥ ३५ ॥
 
रजोभिर्मुहुरु (छू? डू) तैर्लघूभवति भूभरे ।
कथञ्चित् पृतनामारं चक्षमे फणिनां पतिः ॥ ३६ ॥
 
प्रतापादित्यकीर्तीन्दुयुगपद्ग्रासलालसः ।
परागः परभूपानामुपरागोऽभवन्नवः ॥ ३७ ॥
 
तस्य दिक्षु प्ररोहन्त्याः शतधा कीर्तिवीरुधः ।
चिततान रजस्स्तोमः करीपनिकरभ्रमम् ॥ ३८ ॥
 
पांसुस्थगनलक्षेण पलायत रविः कचित् ।
भावियुद्धामरीभूतवीरोद्दलनशङ्कितः ॥ ३९ ॥