This page has not been fully proofread.

:
 
MADHURAVIJAYAM
 
अथ निर्गत्य भवनादवैक्ष्यत महीक्षिता ।
धारितस्तोरणाभ्यर्णे तुङ्गस्तुरगपुङ्गवः ॥ २० ॥
 
सपक्ष इव तार्क्ष्यस्य सजातिरिव चेतसः ।
सखेव गन्धवाहस्य संघात इव रंहसः ॥ २१ ॥
 
अपर्याप्तामतिक्रान्त चेतोवृत्ते: स्वरंहसः ।
बिस्तारयन्निव महीं चटुलैः खुरघट्टनैः ॥ २२ ॥
 
जवाधरितजम्भारितुरङ्गभ्रमकारिणम् ।
मणिकुट्टिमसंक्रान्तमाक्रामन् चिम्चमात्मनः ॥ २३ ॥
 
लवणोदनवदेकान्तलङ्घनामालगर्वितम् ।
हसन्निव हनूमन्तं हेषितैः फेनपाण्डरैः ॥ २४ ॥
 
मुख लीन खली नाहिरच्छपल्ययनच्छदः ।
वपुषापि गरुत्मन्तंमनुगन्तुमियोत्सुकः ॥ २५ ॥
लोलवालाग्रलग्नेन सेव्यमानो नभस्वता ।
रंहोरहस्यशिक्षार्थं शिप्यतामिव जम्मुषा ॥ २६ ॥
 
मुहुः स्वजवसंरोधनमितोन्नमिताननः ।
नमस्कुर्वन्निव पुरोवर्तिनीं विजयश्रियम् ॥ २७ ॥
 
खुरधूतधराधूलिस्थलीकृत नभस्स्थलः ।
 
वारयन्निव रथ्यानां रखेः खेचरतामदम् ॥ २८ ॥
 
(नवभिः कुलकम् ।)
 
देहब (न्धद्ध) मित्रोत्साहं तमारुह्य महीपतिः ।
अमंस्त पृथिवीं सर्वामात्मनो हस्तवर्तिनीम् ॥ २९ ॥
 
93