This page has been fully proofread once and needs a second look.

:
 
MADHURAVIJAYAM
 
अथ निर्गत्य भवनादवैक्ष्यत महीक्षिता ।

धारितस्तोरणाभ्यर्णे तुङ्गस्तुरगपुङ्गवः ॥ २० ॥
 

 
सपक्ष इव तार्क्ष्यस्य सजातिरिव चेतसः ।

सखेव गन्धवाहस्य संघात इव रंहसः ॥ २१ ॥
 

 
अपर्याप्तामतिक्रान्त चेतोवृत्ते: स्वरंहसः ।
बि

वि
स्तारयन्निव महीं चटुलैः खुरघट्टनैः ॥ २२ ॥
 

 
जवाधरितजम्भारितुरङ्गभ्रमकारिणम् ।

मणिकुट्टिमसंक्रान्तमाक्रामन् चिम्चबिम्बमात्मनः ॥ २३ ॥
 

 
लवणोदन्वदेकान्तलङ्घनामात्रगर्वितम् ।

हसन्निव हनूमन्तं हेषितैः फेनपाण्डरैः ॥ २४ ॥
 

 
मुख लीन खली नाहिरच्छपल्ययनच्छदः ।

वपुषापि गरुत्मन्तंमनुगन्तुमियोवोत्सुकः ॥ २५ ॥

 
<flag>
लोलवालाग्रलग्नेन</flag> सेव्यमानो नभस्वता ।

रंहोरहस्यशिक्षार्थं शिप्ष्यतामिव जम्ग्मुषा ॥ २६ ॥
 

 
मुहुः स्वजवसंरोधनमितोन्नमिताननः ।

नमस्कुर्वन्निव पुरोवर्तिनीं विजयश्रियम् ॥ २७ ॥
 

 
खुरधूतधराधूलिस्थलीकृत नभस्स्थलः ।
 

वारयन्निव रथ्यानां रखेःवेः खेचरतामदम् ॥ २८ ॥
 

 
(नवभिः कुलकम् ।)
 

 
देहब (न्ध?द्ध) मित्रोवोत्साहं तमारुह्य महीपतिः ।

अमंस्त पृथिवीं सर्वामात्मनो हस्तवर्तिनीम् ॥ २९ ॥
 
93