This page has not been fully proofread.

92
 
MADHURAVIJAYAM
 
कृपाणकर्पणप्राप्तकुन्तकोदण्डपाणयः ।
 
समगच्छन्त सहसा नैकदेश्याः पदातयः ॥ १० ॥
 
प्रस्थानोचितमाकल्पं बिभ्राणा बाहुशालिनः ।
राजन्यास्तोरणाभ्यर्णे नृपालं प्रत्यपालयन् ॥ ११ ॥
 
सेनासरित्सिताम्भोजैर्जयश्री केलिदर्पणैः ।
अस्तावकाशमाकाशमातपत्रैरजायत ॥ १२ ॥
 
विजृम्भमाणे प्रस्थानशारदारम्भसंभ्रमे ।
नृपाणां चामरालीमिर्मरालीमिरभूयत ॥ १३ ॥
 
नृप मौलिमणिच्छायामञ्जरीपुज्जरञ्जिताः ।
अत्याक्षुरौरसी रक्ति न जातु रविरदमयः ॥ १४ ॥
 
उत्तुङ्गै
चीज संघातैर्निरुद्धे गगनाध्वनि ।
 
निनाय कृच्छ्रात् पातङ्ग शताङ्गं गरुड।प्रजः ॥ १५ ॥
 
पोषितो हयद्वेषाभिबृंहितो गज हितैः ।
वर्धितस्तुर्यनिध्वानैः कोऽपि कोलाहलोऽभवत् ॥ १६ ॥
 
ततो धृतसमायोगः समयज्ञो महीपतिः ।
हितैः पुरोहितैर्यात्रामुहूर्तं प्रत्यवैक्षत ॥ १७ ॥
 
तमसुचयदातेभ्यो दक्षिणं दक्षिणो भुजः ।
स्फुरितैर्भाविवीरश्रीपरिरम्भमहोत्सवम् ॥ २८ ॥
 
अथर्ववे दिनो विप्रास्तं विशेषैर्जयाशिषाम् ।
अवर्धयन् मन्त्रपूतैर्हेविभि॑िरिव पावकम् ॥ १९ ॥