This page has not been fully proofread.

अथ चतुर्थः सर्गः ।
अन्येद्युरथ राजीववनजीवनदायिनि ।
लोकैकदीपे भगवत्युदिते भानुमालिनि ॥ १ ॥
 
विहाय विद्रां विधिवन्निर्मिताहर्मुखक्रियः ।
आदिक्षत् पृतनाध्यक्षान् सेनासन्ननाय सः ॥ २ ॥
 
अथ मन्दरसंघट्टक्षोभिताम्भोधिमण्डलः ।
रराण कोणा मिहतो रणनिर्याजदुन्दुभिः ॥ ३ ॥
 
कल्पान्तोद्भ्रान्तचण्डीशडमरु॒ध्वान्डामरः ।
उदजृम्भत गम्भीरो वियदध्वनि तद्धनिः ॥ ४ ॥
 
प्रायो भयदुतामित्रपदविध्वंसनोत्सुकः ।
स जगाहे प्रतिध्वाननिभादवनिमृद्गुहाः ॥ ५ ॥
 
तस्मिन् विसर्पति त्रासमीलिताशेषलोचनः ।
शेषो युगपदज्ञासीदान्ध्यवाधिर्ययोर्देशाम् ॥ ६ ॥
 
आबद्धकुथम।तङ्गम।त्तपर्याणसैन्धवम् ।
संवर्मितभटं सद्यः समनह्यत तद्बलम् ॥ ७ ॥
 
विशङ्कटकटाघाटविगलम्मदनिर्झराः ।
 
परश्शतं जघटिरे विकटाः करिणां घटाः ॥ ८ ॥
 
समीरणरयोदग्रा वल्गन्तः फेनिलैर्मुखैः ।
तुरङ्गाः सैन्यजलस्तरङ्गा इव रेजिरे ॥ ९ ॥