This page has been fully proofread once and needs a second look.

अथ चतुर्थः सर्गः ।

 
अन्येद्युरथ राजीववनजीवनदायिनि ।

लोकैकदीपे भगवत्युदिते भानुमालिनि ॥ १ ॥
 

 
विहाय <error>विद्रां</error><fix>निद्रां</fix> विधिवन्निर्मिताहर्मुखक्रियः ।

आदिक्षत् पृतनाध्यक्षान् सेनासन्ननाय सः ॥ २ ॥
 

 
अथ मन्दरसंघट्टक्षोभिताम्भोधिमण्डलः ।

रराण कोणा मिभिहतो रणनिर्यादुन्दुभिः ॥ ३ ॥
 

 
कल्पान्तोद्भ्रान्तचण्डीशडमरु॒रुध्वान्डामरः ।

उदजृम्भत गम्भीरो वियदध्वनि तद्ध्वनिः ॥ ४ ॥
 

 
प्रायो भयदुद्रुतामित्रपदविध्वंसनोत्सुकः ।

स जगाहे <flag>प्रतिध्वाननिभादवनिमृभृद्गुहाः</flag> ॥ ५ ॥
 

 
तस्मिन् विसर्पति त्रासमीलिताशेषलोचनः ।

शेषो <flag>युगपदज्ञासीदान्ध्यवाधिर्ययोर्देशाम्</flag> ॥ ६ ॥
 

 
आबद्धकुथम।मातङ्गम।मात्तपर्याणसैन्धवम् ।

संवर्मितभटं सद्यः समनह्यत तद्बलम् ॥ ७ ॥
 

 
विशङ्कटकटाघाटविगलम्न्मदनिर्झराः ।
 

परश्शतं जघटिरे विकटाः करिणां घटाः ॥ ८ ॥
 

 
समीरणरयोदग्रा वल्गन्तः फेनिलैर्मुखैः ।

तुरङ्गाः सैन्यजलधेस्तरङ्गा इव रेजिरे ॥ ९ ॥