This page has not been fully proofread.

2
 
90
 
MADHURĀVIJAYAM
 
तदेवमुज्जृम्भितभृरिपौरुषः पराक्रमं वैरिपु कर्तुमर्हसि ।
उपप्लुताशेषजगत्सु रोषणो वृषेव शातां शतकोटिमद्विषु ॥ ४० ॥
 
उपेत्य तुण्डीरमखण्डितोद्यमः प्रमथ्य चम्पप्रसुखान् रणोन्मुखःन् ।
प्रशाधि काञ्चीमनुवर्तितप्रजः पतिर्निधीनामलकापुरीमिव ॥ ४१ ॥
 
अथाभिभूताखिलबन्यभूभृतस्तुरुष्कभङ्गस्तव नैव दुष्करः ।
निगीर्णशाखाशतसं(वृतः?हतिः) कथं तरुप्रकाण्डं न दहेद् दवानलः ॥४२॥
 
अनेन देशानधिकृत्य दक्षिणान वितन्यते राक्षसराजदुर्नयः ।
स्वयापि लोकलयतापहारिणा विधीयतां राघवकर्म निर्मलम् ॥ ४३ ॥
 
इनीरयित्वा विरते नरेश्वरे प्रवृष्टपाथोधरसाम्यवारिणि ।
कृतप्रणामः शिरसा प्रतीष्टवान् गुरुपदेशं गुणिनां पुरस्सरः ॥ ४४ ॥
 
ततो महार्हैर्गुरुणा विभूषणैः प्रसाधितः स्वावयवावतारितैः ।
परेऽ हे निर्धारित जैत्रनिर्गमो विजाधिवास प्रमनाः समासदत् ॥ ४५ ॥
 
अथोरगाणामधिपाय भाविनं भुवो भरस्यापगमं दिनेश्वरः ।
निवेदायेप्यन्निव गाढरंहसा रथेन पातालगुहामगाहत ॥ ४६ ॥
अथ नृपसुतः सान्ध्यं निर्माय कर्म सभां गतः
क्षणमित्र गुरोराज्ञां राज्ञां गणाय निवेद्य सः ।
विमतविजयव्यग्रोत्साहान् विहाय गृहाय ता-
नरमत सुखी शय्यागेहे सरोजमुखीसखः ॥ ४७ ॥
इति [श्रीगङ्गादेव्या विरचिते मधुरा विजय-
नान्नि वीरकम्परायचरिते*]
 
तृतीयः सर्गः ।