This page has been fully proofread once and needs a second look.

तदेवमुज्जृम्भितभूरिपौरुषः पराक्रमं वैरिषु कर्तुमर्हसि ।
उपप्लुताशेषजगत्सु रोषणो वृषेव शातां शतकोटिमद्रिषु ॥ ४० ॥
 
उपेत्य तुण्डीरमखण्डितोद्यमः प्रमथ्य चम्पप्रसुखान् रणोन्मुखान् ।
प्रशाधि काञ्चीमनुवर्तितप्रजः पतिर्निधीनामलकापुरीमिव ॥ ४१ ॥
 
अथाभिभूताखिलवन्यभूभृतस्तुरुष्कभङ्गस्तव नैव दुष्करः ।
निगीर्णशाखाशतसं(वृतः?हतिः) कथं तरुप्रकाण्डं न दहेद् दवानलः ॥४२॥
 
अनेन देशानधिकृत्य दक्षिणान् वितन्यते राक्षसराजदुर्नयः ।
स्वयापि लोकत्रयतापहारिणा विधीयतां राघवकर्म निर्मलम् ॥ ४३ ॥
 
इतीरयित्वा विरते नरेश्वरे प्रवृष्टपाथोधरसाम्यधारिणि ।
कृतप्रणामः शिरसा प्रतीष्टवान् गुरूपदेशं गुणिनां पुरस्सरः ॥ ४४ ॥
 
ततो महार्हैर्गुरुणा विभूषणैः प्रसाधितः स्वावयवावतारितैः ।
<error>परेऽहि</error><fix>परेऽह्नि</fix> निर्धारितजैत्रनिर्गमो <error>विजाधिवासं</error><fix>निजाधिवासं</fix> प्रमनाः समासदत् ॥ ४५ ॥
 
अथोरगाणामधिपाय भाविनं भुवो भरस्यापगमं दिनेश्वरः ।
निवेदयिष्यन्निव गाढरंहसा रथेन पातालगुहामगाहत ॥ ४६ ॥
 
अथ नृपसुतः सान्ध्यं निर्माय कर्म सभां गतः
क्षणमिव गुरोराज्ञां राज्ञां गणाय निवेद्य सः ।
विमतविजयव्यग्रोत्साहान् विहाय गृहाय ता-
नरमत सुखी शय्यागेहे सरोजमुखीसखः ॥ ४७ ॥
 
इति [श्रीगङ्गादेव्या विरचिते मधुराविजय-
नाम्नि वीरकम्परायचरिते*]
 
तृतीयः सर्गः ।