This page has been fully proofread once and needs a second look.

समग्रतारुण्यमदस्य संपदा स्खलद्गतेर्यन्मदिरानिषेवणम् ।
स एष दोषत्रयजे महाज्वरे ग्रहाभिभूतस्य भुजङ्गनिग्रहः ॥ ३० ॥
 
हितानि कुर्वन्नपि नानुरक्तये जनस्य जल्पन् परुषं रुषा नृपः ।
पयांसि वर्षन्नपि किं न भीषणः कठोर <flag>विस्फूर्जथुगार्जितो</flag> घनः ॥ ३१ ॥
 
दुनोति दण्डेन दुरुत्सहेन यः प्रसह्य राष्ट्रं पदमात्मसंपदाम् ।
स वृक्षमारुह्य कुठारपातनं करोति मूलोद्दलनाय दुर्मतिः ॥ ३२ ॥
 
मदादपात्रेषु ददाति मन्दधीर्धनानि धर्मादिकसाधनानि यः ।
निपात्यते तेन मखक्रियोचितं हविश्चितासद्मनि कृष्णवर्त्मनि ॥ ३३ ॥
 
अर्थैभिरैश्वर्यशरीरयक्ष्मभिर्हताखिलाङ्गैर्व्यसनैरुपद्रुताः ।
तमः पराभूतनिजौजसो नृपाः प्रयान्ति कालाद् द्विषतामुपेक्ष्यताम् ॥ ३४ ॥
 
उपेयुषीं पुण्यवशेन संपदं गुणानुरोधादुपभोक्तुमक्षमाः ।
स्वचापलेन श्लथयन्ति दुर्धियो <flag>वलीमुखाः</flag> पुष्पमयीमिव स्रजम् ॥ ३५ ॥
 
भवादृशास्तु स्वत एव शुद्धया गुरूपदेशैर्गुणितप्रकाशया ।
धिया निरस्तव्यसनानुबन्धया विलोक्य कार्याणि विधातुमीशते ॥ ३६ ॥
 
तदेवमात्मन्यवधार्य धैर्यतस्तथा विधेयं भवतापि धीमता ।
यथेयमेकान्तचला भवद्गुणैर्लभेत लक्ष्मीः स्थिरतामनारतम् ॥ ३७ ॥
 
क्रमागताः कर्मकृतो विमत्सरास्तरस्विनस्तापितवैरिमानसाः ।
महीभुजस्त्यक्तमदा मदाज्ञया तवान्तिके तात ! वसन्ति साम्प्रतम् ॥ ३८ ॥
 
सहस्रशस्तुङ्गतुरङ्गवीचयो मदद्विपद्वीपविशेषितान्तराः ।
भवन्तमुग्रायुधनक्रराजयो भजन्ति नित्यं बहला बलाब्धयः ॥ ३९ ॥