This page has been fully proofread once and needs a second look.

M
 
MADHURAVIJAYAM
 
समग्रतारुण्यम दस्य संपदा स्लद्गतेर्यन्मदिरा निषेवणम् ।
 

स एष दोषत्रयजे महाज्वरे ग्रहामिभिभूतस्य भुजङ्गनिग्रहः ॥ ३० ॥
 

 
हितानि कुर्वन्नपि नानुरक्तये जनस्य जल्पन् परुषं रुषा नृपः ।

पयांसि वर्षन्नपि किं न भीषणः कठोर <flag>विस्फूर्जथुगार्जितो</flag> घनः ॥ ३१ ॥
 

 
दुनोति दण्डेन दुरुत्सहेन यः प्रसह्य राष्ट्रं पदमात्मसंपदाम् ।

स वृक्षमारुह्य कुठारपातनं करोति मूलोद्दलनाय दुर्मतिः ॥ ३२ ॥
 

 
मदादपात्रेषु ददाति मन्दधीर्धनानि धर्मादिकसाधनानि यः ।

निपात्यते तेन मखक्रियोचितं हविश्चितासमनि कृष्णवर्त्मनि ॥ ३३ ॥
 

 
89
 

 
अर्थैभिरैश्वर्यशरीरयक्ष्मर्भिहताखिलाङ्गैर्यसनैरुपद्रुताः ।
 

 
तमः पराभूत निजौजसो नृपाः प्रयान्ति कालाइ द्विषतामुपेक्ष्यताम् ॥ ३४ ॥
 

 
उपेयुवीं पुण्यवशेन संपदं गुणानुरोधादुपभोक्तभक्षमाः ।

स्वचापलेन श्लथयन्ति दुर्धियो वलीमुखाः पुष्पमर्थ मिव स्रजम् ॥ ३५ ॥
 

 
भवादृशास्तु स्वत एव शुद्धया गुरूपदेशैर्गुणितप्रकाशया ।

घिया निरस्तव्यसनानुबन्धया विलोक्य कार्याणि विधातुमीशते ॥ ३६ ॥
 

 
तदेवमात्मन्यवधार्य धैर्येतस्तथा विधेयं भवतापि धीमता ।

यथेयमेकान्तचला भवद्गुणैर्लभेत लक्ष्मीः स्थिरतामनारतम् ॥ ३७ ॥
 

 
क्रमागताः कर्मकृतो विमत्सरास्तरस्चिनस्तापितर्वैरिमानसाः ।

महीभुजत्यक्तमदा मदाज्ञया तबान्तिके तात ! वसन्ति साम्प्रतम् ॥ ३८ ॥
 

 
सहस्रशस्तुङ्गतुरङ्गवीचयो मदद्विपद्वीप विशेषितान्तराः ।
 

 
भवन्तमुग्रायुधनक्रराजयो भजन्ति नित्यं बहला बलाब्धयः ॥ ३९ ॥