This page has not been fully proofread.


 
88
 
MADHURAVIJAYAM
 
अतिवर्गोन्मथनेन विश्रुतं विधातुमत्यन्तविनीतमप्यमुम् ।
कदाचिदर्थोल्लसितेन भूपतिः स वाङ्मयेनैवमुपादिशत् सुतम् ॥ २० ॥
 
धियः प्रकाशादुपदेशसंभृतात् तमो हि तारुण्यविजृम्भितं जनाः ।
समुज्झितुं तात ! भवन्ति पारितास्तदे*] तदाकर्णयितुं त्वमर्हसि ॥ २१ ॥
 
गुरुपदेशः किल कथ्यते बुधैरकर्कशं किंचन रत्नकुण्डलम् ।
अमेचकं नूतनमञ्जनं सतामजातगालक्षयमद्भुतं तपः ॥ २२ ॥
 
मुहुः प्रसन्मदमीलितेक्षणाः क्षणाधिरोहद्रजसो मलीमसाः ।
गजा इव स्तम्भनिरुद्धचेतसः खला न गृह्णन्ति नियन्तृचोदितम् ॥ २३ ॥
 
मदान्धकारो हि महानिशीथिनी प्रबोधचन्द्रप्रतिरोधकालिका ।
मनोजमत्तद्विपवैजयन्तिका शरीरिणां शश्वदलङ्घिनी दशा ॥ २४ ॥
 
भवत्यहंकारमहीरुहाङ्कुरे दयापयश्शोषणदारुणोष्मणि ।
तमःप्रदोषे तरुणिम्नि कस्य वा समञ्जसं पश्यति दृष्टिरञ्जसा ॥ २५ ॥
 
युवानमज्ञात नयागमक्रमं स्वतन्त्र मैश्चर्यमदोद्धतं नृपम् ।
विपत् क्षणेन व्यसनानुबन्धजा क्षिणोति चन्द्रं क्षणदेव तामसी ॥ २६ ॥
 
अशेषदोषाङ्कुरकुञ्जभूमयो मदान्धचे तो मृगबन्धवागुराः ।
कथं नु विश्वासपदं मनीषिणां मनोजमायाभटशस्त्रिकाः स्रियः ॥ २७ ॥
 
फलोत्तरा भूमिरनत्यय बलं महार्हरत्नाभरणं च संपदः ।
किमन्यदात्मा च कल्लपुत्रकैः परार्थमेव ध्रुवमक्षदेविनः ॥ २८ ॥
 
विना फलं जीवितसंशयप्रदां विनोदबुद्धया मृगयां भजेत कः ।
प्रमाद्यतां पार्थिवगन्धहस्तिनामियं हि बारी कथिता विचक्षणैः ॥ २९ ॥