This page has not been fully proofread.

MADHURAVIJAYAM
 
व्यराजतोरःस्थलमस्य तावता विशालभावेन कवाटबन्धुरम् ।
करीन्द्रकुम्भप्रतिमं मृगीदृशां कुचद्र्यं याति न यावता बहिः ॥ १० ॥
 
घनांसपीठौ कठिन।रुणाङ्गुली पटुप्रकोष्ठौ परिघानुकारिणौ ।
महौजसस्तस्य मनोहरौ भुजावपश्यदाजानुविलम्बिनौ जनः ॥ ११ ॥
 
विहाय मध्यं यदि लक्ष्मरेखया चहिः प्रसार्येत सुधांशुमण्डलम् ।
दरोदितश्मश्रु (?) तश्रियस्तदा तदाननेन्दोरुपमानतां व्रजेत् ॥ १२ ॥
 
विनिद्रपङ्केरुहदामदीर्घयोर्दृशोरुपान्ते जनितोऽस्य शोणिमा ।
अनर्गलस्वप्रसरप्ररोधकश्रुतिद्वयीदर्शितरोषयोरिव ॥ १३ ॥
 
अनुल्बणामायततुङ्गबन्धुराममंस्त लोकः स्फुटमस्य नासिकाम् ।
विशृङ्खलव्या वदीक्षणद्वयीपरस्पराक्रान्तिनिवारणार्गलाम् ॥ १४ ॥
 
अधारयद् गर्भितरक्तसन्ध्यक्रं नृपात्मजः केशकलापमायतम् ।
दृढानुरागच्छुरितैर्मृगीदृशामनुप्रविष्टं हृदयैरिवान्तरा ॥ १५ ॥
 
सह प्रतापेन समुन्नतिं वपुर्वलक्षभाव यशसा विलोचनेा
गुणैः परीणाहममुष्य कन्धरा स्वरेण गाम्भीर्यमगच्छदाशयः ॥ १६ ॥
 
अथैनमासादितयौवनोदयं नरेन्द्रकन्याभिरयोजयन्नृपः ।
 
घनागमः संभृतरत्नसंपदं वरापगाभिर्निधिमम्भसामिव ॥ १७ ॥
 
शचीव शक्रस्य रमेव शाणि: सतीव शम्भो
 
॥ १८ ॥
 
[नरेन्द्रसूनुर्नयनाभिरामया तया समं निर्विशति स्म सुनुवा ।
परस्परप्रेमरसोत्तरं सुखं दिवौकसार्मप्यतिमात्र दुर्लभम् ॥ १९ ॥५॥
 
87