2023-02-17 20:22:22 by ambuda-bot
This page has not been fully proofread.
2
अथ तृतीयः सर्गः ।
ततो यथावत्कृतचौलसत्क्रियो नरेन्द्रसूनुः स्वत एव लब्धवान् ।
कलासु शश्वत् सकलासु कौशलं गुरूपदेशस्त्वपदेशतामगात् ॥ १ ॥
स तीर्थलब्धायुधशस्त्र विदा गुणाभिरामो गुरुणैव शिक्षितः ।
शासनासिप्रमुखेषु शातधीरगच्छदखेष्वखिलेषु पाटवम् ॥ २ ॥
स सत्यवागू भूरिबलो धनुर्धरस्तुरङ्गमारोहणकर्ममर्मवित् ।
कृपाण विद्यानिपुणः पृथाभुवामदर्शि संङ्घात इवैकतां गतः ॥ ३ ॥
स पञ्चचाणद्विपकेलिंदीर्घिकां धरानुरागद्रुमपुष्पमञ्जरीम् ।
नितम्बिनीनेत्रचकोरचन्द्रिकामवापदास्कन्दितशैशवां दशाम् ॥ ४ ॥
सनव्यतारुण्यनिरस्त शैशवो विभुर्विभक्तावयवो व्यराजत ।
वसन्त निधूततुपारमण्डलः पतिर्दिनानामिव तीव्रदीधितिः ॥ ५ ॥
स सर्वतः पर्वतकन्दराश्रयैः परिग्रहानुग्रहकाङ्क्षिभिर्गैजैः ।
वितीर्णमुत्कोचतयेव धीरधीरधारयद् विभ्रममन्थरं गतम् ॥ ६॥
स रूपगर्वेश निरास्थदङ्घ्रिणा स्मरस्य नूनं जयवैजयन्तिकाम् ।
न चेत् कथं तस्य तलेऽतिकोमले सुलेखमालक्ष्यत मीनलान्छनम् ॥ ७ ॥
शुभाकृतेस्तस्य सुवर्णमेखलं कटिस्थलं स्थूलशिलाविशङ्कटम् ।
व्यडम्बयन्नूतनधातुपट्टिकापरिष्कृतामञ्जनभूभृतस्तटीम् ॥ ८ ॥
अधारयन् दर्शितदेहसौष्ठवां स राजसू नुस्तनुवृत्तमध्य(माता)म् ।
पराक्रमत्रासितचित्तवृत्तिर्भिमृगाधिराजैरुपदीकृतामिव ॥ ९ ॥