This page has been fully proofread once and needs a second look.

2
 
अथ तृतीयः सर्गः ।
 

 
ततो यथावत्कृतचौलसत्क्रियो नरेन्द्रसूनुः स्वत एव लब्धवान् ।

कलासु शश्वत् सकलासु कौशलं गुरूपदेशस्त्वपदेशतामगात् ॥ १ ॥
 

 
स <error>
तीर्थलब्धायुधशस्त्र विदा</error> गुणाभिरामो गुरुणैव शिक्षितः ।
शा

शरा
सनासिप्रमुखेषु शातधीरगच्छदखेस्त्रेष्वखिलेषु पाटवम् ॥ २ ॥
 

 
स सत्यवागूग् भूरिबलो धनुर्धरस्तुरङ्गमारोहणकर्ममर्मवित् ।

कृपाण विद्यानिपुणः पृथाभुवामदर्शि संङ्घात इवैकतां गतः ॥ ३ ॥
 

 
स पञ्चचाबाणद्विपकेलिंलिदीर्घिकां धरानुरागद्रुमपुष्पमञ्जरीम् ।

नितम्बिनीनेत्रचकोरचन्द्रिकामवापदास्कन्दितशैशवां दशाम् ॥ ४ ॥
 

 
नव्यतारुण्यनिरस्त शैशवो विभुर्विभक्तावयवो व्यराजत ।
वसन्त

वसन्त
निर्धूततुपाषारमण्डलः पतिर्दिनानामिव तीव्रदीधितिः ॥ ५ ॥
 

 
स सर्वतः पर्वतकन्दराश्रयैः परिग्रहानुग्रहकाङ्क्षिभिर्गैजैः ।

वितीर्णमुत्कोचतयेव धीरधीरधारयद् विभ्रममन्थरं गतम् ॥ ६॥
 

 
स रूपगर्वे निरास्थदङ्घ्रिणा स्मरस्य नूनं जयवैजयन्तिकाम् ।

न चेत् कथं तस्य तलेऽतिकोमले सुलेखमालक्ष्यत मीनलान्ञ्छनम् ॥ ७ ॥
 

 
शुभाकृतेस्तस्य सुवर्णमेखलं कटिस्थलं स्थूलशिलाविशङ्कटम् ।

व्यडम्बयन्नूतनधातुपट्टिकापरिष्कृतामञ्जनभूभृतस्तटीम् ॥ ८ ॥
 

 
अधारयन्द् दर्शितदेहसौष्ठवां स राजसू नुस्तनुवृत्तमध्य(मा?ता)म् ।

पराक्रमत्रासितचित्तवृत्तिर्भिर्मृगाधिराजैरुपदीकृतामिव ॥ ९ ॥