This page has not been fully proofread.

MADHURAVIJAYAM
 
कलकणत्काञ्चनकिङ्किणीकं गृहाङ्गणे जानुचरं कुमारम् ।
आलोकयन्तावमृताम्बुराशेर्मनाविवान्तः
 
पितरावभूताम् ॥ ३९ ॥
 
अथ क्रमात् पार्थिवधर्मपत्नी सुतावुभौ कम्पनसङ्गमाख्यौ ।
असूत चिन्तामणिपारिजातौ पयः पयोधेरिव वीचिरेखा ।॥ ४० ॥
 
स राजसूनुः सह सोदराभ्यां दिने दिने वृद्धिमुपाससाद ।
शशीव सानन्दमुदीक्ष्यमाणः प्रजाभिरालोकसमुत्सुकाभिः ॥ ४१ ॥]
 
पशुपतिरिव नेत्रैः सोमसूर्यामिरूपै-
र्नय इव निरपायैः प्राभवोत्साहमन्त्रैः :
भव इव पुरुषार्थैर्यैर्मकामार्थसंज्ञे
 
स्त्रिभिरपि नरपालस्तैस्तनूजैरभासीत् ॥ ४२ ॥
 
इति श्रीगङ्गादेव्या विरचिते मधुराविजय.
नाम्नि [वीर]कम्परायचरिते
द्वितीयः सर्गः ।
 
85