This page has been fully proofread once and needs a second look.

MADHURAVIJAYAM
 
कलत्क्वणत्काञ्चनकिङ्किणीकं गृहाङ्गणे जानुचरं कुमारम् ।

आलोकयन्तावमृताम्बुराशेर्मग्नाविवान्तः
 
पितरावभूताम् ॥ ३९ ॥
 

 
अथ क्रमात् पार्थिवधर्मपत्नी सुतावुभौ कम्पनसङ्गमाख्यौ ।

असूत चिन्तामणिपारिजातौ पयः पयोधेरिव वीचिरेखा ।॥ ४० ॥
 

 
स राजसूनुः सह सोदराभ्यां दिने दिने वृद्धिमुपाससाद ।

शशीव सानन्दमुदीक्ष्यमाणः प्रजाभिरालोकसमुत्सुकाभिः ॥ ४१ ॥<error>]
 
</error><fix></fix>
 
पशुपतिरिव नेत्रैः सोमसूर्यामिग्निरूपै-

र्नय इव निरपायैः प्राभवोत्साहमन्त्रैः :

भव इव पुरुषार्थैर्यैर्धर्मकामार्थसंज्ञे
 
ञै-
स्त्रिभिरपि नरपालस्तैस्तनूजैरभासीत् ॥ ४२ ॥
 

 
इति श्रीगङ्गादेव्या विरचिते मधुराविजय.
-
नाम्नि [वीर]कम्परायचरिते

द्वितीयः सर्गः ।
 
85