This page has been fully proofread once and needs a second look.

s
 
5
 
84
 
MADHURAVIJAYAM
 
ऊर्णासनाथायत फालपट्टमुन्निद्रपद्मच्छददीर्घनेत्रम् ।
 
ताम्राघ

ताम्राध
रोष्ठं समतुङ्गनासं मुग्धस्मिताङ्गं मुखमुद्हन्तम् ॥ ३० ॥
 

 
(षड्भिः कुलकम् ।)
 

 
अव्याजसौन्दर्यगुणाभिरामं कुमारमालोकयतश्चिराय ।

नृपस्य निष्पन्ददृशो मुहूर्तमानन्द बाप्पोऽभवदन्तरायः ॥ ३१ ॥
 

 
आश्लिप्ष्यतस्तस्य दृशा तनुनूजमन्तः प्रहर्षेण विजृम्भितेन ।

प्रायः प्रणुन्नैर्बहिरङ्गकेभ्यः प्रादुर्बभूबेवे पुलकप्ररोहैः ॥ ३२ ॥
 

 
ततः प्रतीतेऽह्नि पुरोहितेन नरेन्द्रसूनुः कृतजातकर्मा ।

समिद्धतेजाः समतामयासीन्मन्त्रप्रणीतेन मखानलेन ॥ ३३
 

 
आकम्पयिष्यत्ययमेकवीरः संग्रामरङ्गे सकलानरातीन् ।

इत्येव निश्चित्य स दीर्घदर्शी नाम्ना सुतं कम्पन इत्यकार्षीत् ॥ ३४ ॥
 

 
धात्रीभिराप्ताभिरमुं कुमारमवर्धयद् भूपतिरादरेण ।

यज्वा यथाज्याहुतिर्मिहुताशं सस्यं यथा वृष्टिभिरम्बुवाहः ॥ ३५ ॥
 

 
क्रमेण धात्रीजनशिक्षितानि वचांसि यातानि च मन्थराणि ।
स्व

स्खल
त्पदान्यस्य घराधिनाथो निशम्य दृष्टाट्वा च स निर्वृतोऽभूत् ॥ ३६ ॥
 

 
तदाननं तस्य सुगन्धि जिघ्रन्नालक्ष्यदन्ताङ्कुरदर्शनीयम् ।

न तृप्तिमासादयति स्म राजा नवोदयं हंस इवारविन्दम् ॥ ३७ ॥
 

 
तथा न कर्पूरभरैर्ने हारैर्ने चन्दनैर्नाप्यमृतांशुपादैः ।

यथाभवन्निर्वृतमस्य गात्रं सुताङ्गसंस्पर्शभुवा सुखेन ॥ ३८ ॥