2023-02-17 20:22:22 by ambuda-bot
This page has not been fully proofread.
MADHURAVIJAYA M
अस्योपवाह्यत्वमुपेत्य लभ्यां कीर्ति भवित्रीमिव भावयन्तः ।
क्ष्मामुल्लिखन्तश्चटुलैः खुराग्रैर्जिहेषिरे हर्षजुषस्तुरङ्गाः ॥ २० ॥
प्रस्तावितो मङ्गलतूर्यघोषैः प्रसारितश्चारणचाटुवादैः ।
प्रहृष्यतां तत्र पुरे जनानां कोलाहलः कोऽपि समुज्जजम्भे ॥ २१ ॥
सुखायमानां सुतजन्मवार्ता सहर्षमावेदयते जनाय ।
अवाञ्छदात्मानमपि प्रदातुं कुतूहली कुन्तलभूमिपालः ॥ २२ ॥
विशृङ्खलास्तस्य गिरा निरीयुः कारागृहेभ्यो विमतावरोधाः ।
तुलुष्कबन्दीनिवहाय तूर्णमागामिने दातुमिवावकाशम् ॥ २३ ॥
स्नातस्ततो धौतदुकूलधारी वितीय भूरि द्रविणं द्विजेभ्यः ।
महीपतिः पुत्रमुखं दिदृक्षुः प्राविक्षदन्तःपुरमात्तहर्षः ॥ २४ ॥
अवैक्षत क्षामशरीरयष्टेः कुमारमुत्सङ्गगतं स देव्याः ।
शरत्कृशाया इव शैवलिन्यास्तरङ्गलम कलहंसशाबम् ॥ २५ ॥
प्रकीर्णकाश्मीरपरागगौरैस्तिरस्कृताभ्यन्तरदीपशोभैः
निवार्यमाणं मुहुरुजिहानैररिष्टगेहं महसां प्ररोहैः ॥ २६ ॥
मुहुर्मुहुः पल्लवपाटलेन मुष्टीकृतेन द्वितयेन पाण्योः ।
अरातिलक्ष्मीकचसंचयानामाकर्षशिक्षामिव शीलयन्तम् ॥ २७ ॥
आलक्ष्यरेखामयशङ्खचकच्छत्रारविन्दध्वजमीनचिह्नौ ।
प्रवालताम्राङ्गुलिदर्शनीयौ सुजातपाष्णीं चरणौ वहन्तम् ॥ २८ ॥
का(ले?ये) कलामप्यसुरान्तकस्य प्रकाशयन्तीमवतारमन्यम् ।
अचञ्चलश्रीतटिदभ्रलेखां श्रीवत्समुद्रामुरसा दधानम् ॥ २९ ॥
83