This page has been fully proofread once and needs a second look.

MADHURAVIJAYA M
 
अस्योपवाह्यत्वमुपेत्य लभ्यां कीर्ति भवित्रीमिव भावयन्तः ।

क्ष्मामुल्लिखन्तश्चटुलैः खुराग्रैर्जिहेषिरे हर्षजुषस्तुरङ्गाः ॥ २० ॥
 

 
प्रस्तावितो मङ्गलतूर्यघोषैः प्रसारितश्चारणचाटुवादैः ।

प्रहृष्यतां तत्र पुरे जनानां कोलाहलः कोऽपि समुज्जजृम्भे ॥ २१ ॥
 

 
सुखायमानां सुतजन्मवार्तातां सहर्षमावेदयते जनाय ।

अवाञ्छदात्मानमपि प्रदातुं कुतूहली कुन्तलभूमिपालः ॥ २२ ॥

 
विशृङ्खलास्तस्य गिरा निरीयुः कारागृहेभ्यो विमतावरोधाः ।

तुलुष्कबन्दीनिवहाय तूर्णमागामिने दातुमिवावकाशम् ॥ २३ ॥
 

 
स्नातस्ततो धौतदुकूलधारी वितीय भूरि द्रविणं द्विजेभ्यः ।

महीपतिः पुत्रमुखं दिदृक्षुः प्राविक्षदन्तःपुरमात्तहर्षः ॥ २४ ॥
 

 
अवैक्षत क्षामशरीरयष्टेः कुमारमुत्सङ्गगतं स देव्याः ।

शरत्कृशाया इव शैवलिन्यास्तरङ्गलग्नं कलहंसशाम् ॥ २५ ॥
 

 
प्रकीर्णकाश्मीरपरागगौरैस्तिरस्कृताभ्यन्तरदीपशोभैः

निवार्यमाणं मुहुरुज्जिहानैररिष्टगेहं महसां प्ररोहैः ॥ २६ ॥
 

 
मुहुर्मुहुः पल्लवपाटलेन मुष्टीकृतेन द्वितयेन पाण्योः ।

अरातिलक्ष्मीकचसंचयानामाकर्षशिक्षामिव शीलयन्तम् ॥ २७ ॥
 

 
आलक्ष्यरेखामयशङ्खचकच्छत्रारविन्दध्वजमीनचिह्नौ ।

प्रवालताम्राङ्गुलिदर्शनीयौ सुजातपाष्णींर्ष्णी चरणौ वहन्तम् ॥ २८ ॥
 

 
का(ले?ये) कलामप्यसुरान्तकस्य प्रकाशयन्तीमवतारमन्यम् ।

<flag>
अचञ्चलश्रीतटिदभ्रलेखां</flag> श्रीवत्समुद्रामुरसा दधानम् ॥ २९ ॥
 
83