This page has not been fully proofread.

2
 
82
 
MADHURAVIJAYAM
 
सौभाग्यगन्धद्विपदानलेखा रराज तस्या नवरोमराजिः ।
तेजोनिधिं गर्भतले निगूढं कालोरगी रक्षितुमागतेव ॥ १० ॥
 
श्यामायमानच्छविना मुखेन स्तनद्वयं तामरसेक्षणायाः ।
संदष्टनीलोत्पलयोरभिरख्यां रथाङ्गनाम्न्नोरधरीचकार ॥ ११ ॥
 
तामम्बुगर्भामिव मेघमालां वेलामिवाभ्यन्तरलीनचन्द्राम् ।
अन्तस्थरत्नामिव शुक्तिरेखामापन्नसत्त्वां प्रभुरभ्यनन्दत् ॥ १२ ॥
ततः परं तापहरः प्रजानां पुरोहितोक्तया पुरुहूतकल्पः ।
व्यधत्त काले विभवानुरूपं पुंसां वरः पुंसवनक्रियां सः ॥ १३ ॥
 
अथ प्रशस्ते दिवसे समस्तैमहर्तिकैः साधितपुण्यलग्ने ।
असूत सूनुं नरनाथपत्नी देवी महासेनमिवेन्दुमौलेः ॥ १४ ॥
 
महौजसप्तस्य निजैर्यशोभिरुद्वेलदुग्धोदधिपूरगौरैः ।
प्रक्षालितानीव तदा बभूवुर्घृतप्रसादानि दिशां मुखानि ॥ १५ ॥
 
ज्ञात्वा वशे तस्य भुव भवित्रीं भयादिवास्पृष्टपरागलेशः ।
आकृष्टकल्पद्रुमपुष्पगन्धो मरुद् ववौ मन्दममन्दशैत्यः ॥ १६ ॥
 
आगामिनीमध्वरहव्यसिद्धिं निश्चित्य देशेष्वपि दक्षिणेषु ।
प्रदक्षिणीभूतशिखाकलापो ननत हर्षादिव हव्यवाहः ॥ १७ ॥
 
कल्पद्रुमास्तेन हरिप्यमाणां मत्वा निजां त्यागयशःपताकाम् ।
पयोधरप्रेषितपुष्पवर्षाः प्रागेव सन्धानमिवान्वतिष्ठन् ॥ १८ ॥
 
स्ववैरिभूतान् मृगयासु सिंहान हन्ता प्रवीरोऽयमिति महर्षात ।
प्रभिन्नगण्डस्रुतदानधारा जगर्जुरुच्चैर्जयकुञ्जरेन्द्राः ॥ १९ ॥