This page has been fully proofread once and needs a second look.

2
 
82
 
MADHURAVIJAYAM
 
सौभाग्यगन्धद्विपदानलेखा रराज तस्या नवरोमराजिः ।

तेजोनिधिं गर्भतले निगूढं कालोरगी रक्षितुमागतेव ॥ १० ॥
 

 
श्यामायमानच्छविना मुखेन स्तनद्वयं तामरसेक्षणायाः ।

संदष्टनीलोत्पलयोरभिरख्यां रथाङ्गनाम्न्नोरधरीचकार ॥ ११ ॥
 

 
तामम्बुगर्भामिव मेघमालां वेलामिवाभ्यन्तरलीनचन्द्राम् ।

अन्तस्थरत्नामिव शुक्तिरेखामापन्नसत्त्वां प्रभुरभ्यनन्दत् ॥ १२ ॥

 
ततः परं तापहरः प्रजानां पुरोहितोक्तया पुरुहूतकल्पः ।

व्यधत्त काले विभवानुरूपं पुंसां वरः पुंसवनक्रियां सः ॥ १३ ॥
 

 
अथ प्रशस्ते दिवसे समस्तैर्मौहर्तिकैः साधितपुण्यलग्ने ।

असूत सूनुं नरनाथपत्नी देवी महासेनमिवेन्दुमौलेः ॥ १४ ॥
 

 
महौजसप्स्तस्य निजैर्यशोभिरुद्वेलदुग्धोदधिपूरगौरैः ।

प्रक्षालितानीव तदा बभूवुर्घृधृतप्रसादानि दिशां मुखानि ॥ १५ ॥
 

 
ज्ञात्वा वशे तस्य भुवं भवित्रीं भयादिवास्पृष्टपरागलेशः ।

आकृष्टकल्पद्रुमपुष्पगन्धो मरुद् ववौ मन्दममन्दशैत्यः ॥ १६ ॥
 

 
आगामिनीमध्वरहव्यसिद्धिं निश्चित्य देशेष्वपि दक्षिणेषु ।

प्रदक्षिणीभूतशिखाकलापो ननर्त हर्षादिव हव्यवाहः ॥ १७ ॥
 

 
कल्पद्रुमास्तेन हरिप्ष्यमाणां मत्वा निजां त्यागयशःपताकाम् ।

पयोधरप्रेषितपुष्पवर्षाः प्रागेव सन्धानमिवान्वतिष्ठन् ॥ १८ ॥
 

 
स्ववैरिभूतान् मृगयासु सिंहान् हन्ता प्रवीरोऽयमिति प्रहर्षात ।
त् ।
प्रभिन्नगण्डस्रुतदानधारा जगर्जुरुच्चैर्जयकुञ्जरेन्द्राः ॥ १९ ॥