This page has not been fully proofread.

L
 
अथ द्वितीयः सर्गः ।
 
अथास्य वंशप्रतिरोहचीजं महीभुजो गर्भमधत्त देवी ।
जगत्रयोद्भूतिनिदानभृतं तेजो विधातुः प्रथमेव सृष्टिः ॥ १ ॥
 
मुखेन तन्वी शरपाण्डरेण विमुक्तरत्नाभरणा विरेजे ।
विनराजीववना दिनान्ते छायाशशाङ्केन शरन्नदीव ॥ २ ॥
 
गर्भस्थितस्येव शिशोर्विधातु वसुन्धरामण्डलभार शिक्षाम् ।
अरोचयत् पार्थिवधर्मपत्नी मन्ये मृदा स्वादरसानुबन्धम् ॥ ३ ॥
 
अनन्यसामान्यभुजापदानमुत्पत्स्यमानं तनयं नृपस्य ।
अनारतं वीररसानुबन्धं न्यवेदयन् दौहृदमेव देव्याः ॥ ४ ॥
 
सा तुङ्गभद्रां सविधे वहन्तीं सुभ्रूरनादृत्य सुखावगाहाम् ।
विहर्तुमैच्छन्निज सैन्य नागैस्तरङ्गिते वारिणि ताम्रपण्याः ॥ ५ ॥
 
अपारयन्ती चरितैणशाचं क्रीडाच लोपान्तमपि प्रयातुम् ।
आखेटरागःदधिरोढुमैच्छन्माद्यन्मृगेन्द्रान् मलयाद्रिकूटान् ॥ ६ ॥
 
सा दैत्यनाथप्रथनाय पूर्व विष्णोरस्तात्कृत पौरुषस्य ।
आकर्णयन्ती कुहनाप्रपञ्चादासी॥ ७॥
 
पृथ्वी रथः सारथिरब्जसूतिः शेषेण सज्यं धनुरद्विराजः ।
शरश्च शौरिः किल हन्त लक्ष्यं त्रयं पुग़मित्यहसत् पुरारिम् ॥ ८ ॥
 
क्रमाज्जहद्भिः क्रशिमानमङ्गैर्मुखेन मुग्धालसलोचनेन ।
मध्येन च त्यक्तवलित्रयेण नरेश्वरं नन्दयति स्म राज्ञी ॥ ९ ॥