This page has been fully proofread once and needs a second look.

80
 
MADHURAVIJAYAM
 
समोऽपि पुरुषार्थेषु स धर्मं सम्मतः सताम् ।

बह्नम॑मंस्त पुमानाद्यः <error>सत्वं</error><fix>सत्त्वं</fix> त्रिषु गुणेष्विव ॥ ६९ ॥

 
दानं पाणेः श्रुतेः सुसूक्तं <error>मौलेस्त्रयम्बकपादुकाम्
</error><fix>मौलेस्त्र्यम्बकपादुकाम्</fix> ।
भूषाममंस्त यः श्रीमान् श्रेयोऽवाप्तिसमुत्सुकः ॥ ७० ॥

 
आ विन्ध्यादा च मलयादास्तादेद्रेरा च रोहणात ।
त् ।
प्रकम्पिताहितप्राणं <flag>प्राणंसिपुरभुंषुरमुं</flag> नृपाः ॥ ७१ ॥

 
कुलक्रमानुसंप्राप्तक्षोणीरक्षणजागरः <error>गरः
</error><fix></fix>।
अभुङ्क्त विपुलान् भोगाननासक्तमनाः प्रभुः ॥ ७२ ॥
 

 
देवायी नाम तस्यासीद् देवी वसुमतीपतेः ।

पद्मा पद्मेक्षणस्येव शङ्करस्येव पार्वती ॥ ७३ ॥
 

 
सत्स्वप्यन्येषु दारेषु तामेव मनुजाधिपः ।

बह्मंस्त निशानाथो नक्षत्रेष्विव रोहिणीम् ॥ ७४ ॥

 
कर्णाटलोकनयनोत्सवपूर्णचन्द्रः
 

साकं तया हृदयसंमतया नरेन्द्रः ।

कालोचितान्यनुभवन् क्रमशः सुखानि
 

वीरश्चिराय विजयापुरमध्यवात्सीत् ॥ ७५ ॥
 

 
इति श्रीगङ्गादेव्या विरचिते मधुराविजय-

नाम्नि वीरकम्परायचरिते
 

प्रथमः सर्गः ।
 

 
मीनाक्ष्यै नमः ।