2023-02-17 20:22:21 by ambuda-bot
This page has not been fully proofread.
80
MADHURAVIJAYAM
समोऽपि पुरुषार्थेषु स धर्मं सम्मतः सताम् ।
बह्नम॑स्त पुमानाद्यः सत्वं त्रिषु गुणेष्विव ॥ ६९ ॥
दानं पाणेः श्रुतेः सुक्तं मौलेस्त्रयम्बकपादुकाम् ।
भूषाममंस्त यः श्रीमान् श्रेयोऽवाप्तिसमुत्सुकः ॥ ७० ॥
आ विन्ध्यादा च मलयादास्तादेरा च रोहणात ।
प्रकम्पिताहितप्राणं प्राणंसिपुरभुं नृपाः ॥ ७१ ॥
कुलक्रमानुसंप्राप्तक्षोणीरक्षणजागरः गरः ।
अभुङ्क्त विपुलान् भोगाननासक्तमनाः प्रभुः ॥ ७२ ॥
देवायी नाम तस्यासीद् देवी वसुमतीपतेः ।
पद्मा पद्मेक्षणस्येव शङ्करस्येव पार्वती ॥ ७३ ॥
सत्स्वप्यन्येषु दारेषु तामेव मनुजाधिपः ।
बह्नमंस्त निशानाथो नक्षत्रेष्विव रोहिणीम् ॥ ७४ ॥
कर्णाटलोकनयनोत्सवपूर्णचन्द्रः
साकं तया हृदयसंमतया नरेन्द्रः ।
कालोचितान्यनुभवन् क्रमशः सुखानि
वीरश्चिराय विजयापुरमध्यवात्सीत् ॥ ७५ ॥
इति श्रीगङ्गादेव्या विरचिते मधुराविजय-
नाम्नि वीरकम्परायचरिते
प्रथमः सर्गः ।
मीनाक्ष्यै नमः ।