This page has been fully proofread once and needs a second look.

MADHURAVIJAYAM
 
पद्मरागोपलोत्कीर्णप्रासादप्रान्तवर्तिनः ।
 

सन्ततं यत्र दृश्यन्ते सान्ध्या इव बलाहकाः ॥ ५८ ॥
 

 
सन्ध्यासु यत्र निर्यान्ति जालेभ्यो धूपराजयः ।

अन्तः प्रदीपिकालोकचकितध्वान्तसन्निभाः ॥ ५९ ॥
 

 
यद्दीर्घिकासु <error>माणिक्कमयसोपानचारिभिः
</error><fix>माणिक्यमयसोपानचारिभिः</fix> ।
क्षणदास्वपि चक्राह्रैवैर्विरहो नानुभूयते ॥ ६० ॥
 

 
यदङ्ग नामुखाम्भोजलावण्यालाभलज्जितः ।

कलङ्कच्छद्मना चन्द्रो व्यनक्ति हृदयव्यथाम् ॥ ६१ ॥
 

 
यत्र स्त्रीणां कटाक्षेषु यूनां हृदयहारिषु ।

पुष्पास्त्रसंचये वाञ्छां मुञ्चते मुञ्चसायकः ॥ ६२ ॥
 

 
मरालैर्मञ्जुमञ्जीरशिञ्जिताकृष्टमानसैः ।

लीलागतिमिव प्राप्तुं सेव्यन्ते यत्र योषितः ॥ ६३ ॥
 

 
यत्रावलग्नसादृश्य वाञ्छाविमतमम्बरम् ।

प्रायः पयोधरोत्सेधैर्निरुन्धन्ति पुरन्ध्रयः ॥ ६४ ॥
 

 
यत्र वामभ्रुवामेव काठिन्यं स्तनमण्डले ।

कौटिल्यं <flag>कबरीमारे</flag> कार्श्यं मध्ये च दृश्यते ॥ ६५ ॥
 

 
यच्छाखानगरीं पम्पामनेकधनदाश्रिताम् ।

अधितिष्ठन् विरूपाक्षो न स्मरत्यलकापुरीम् ॥ ६६ ॥
 

 
स तस्याममरावत्यां पुरुहूत इव स्थितः ।

अशिषद् द्यामिव क्षोणीमनवद्यपराक्रमः ॥ ६७ ॥
 

 
मित्राभ्युदयदायिन्या भूत्या नीत्या प्रभृतया ।
भूतया ।
मनुमेव पुनर्जातं तममन्यन्त मानवाः ॥ ६८ ॥
 
79