This page has been fully proofread once and needs a second look.

78
 
MADHURAVIJAYAM
 
कस्तुतूरीहरिणाक्रान्तकर्पूरकदलीतलैः ।

<flag>
मनोभवमहीदुर्गैर्भैहिता</flag> केलिपर्वतैः ॥ ४८ ॥
 

 
कमलामोदमधुरैः कलहंसकुलाकुलैः ।

क्रीडासरोभिः सहिता मणिसोपानमञ्जुलैः ॥ ४९ ॥
 
यशस

 
यशस्
स्तोमैरिवाशेषनगरीविजयार्जितैः ।

सौघैःधैः प्रकाशितोत्सेधा शरदम्भोदपाण्डरैः ॥ ५० ॥
 

 
विकसद्वनितावल्लीविलासवनवाटिका ।

दक्षिणाशासरोजाक्षीफाललीलाललाटिका ॥ ५१ ॥
 

 
द्विजराजसमुल्लास नित्यराकानिशीथिनी ।

गन्धर्वगण सान्निध्य नव्य दिव्यवरूथिनी ॥ ५२ ॥
 

 
भुजङ्गसङ्घसंवासभूतेशमुकुटस्थली ।

सुमनस्तोमसंचारसुवर्णगिरिमेखला ॥ ५३ ॥
 

 
लीलेव दिष्टिवृद्धीनां शालेव सकलश्रियाम् ।

मालेव सर्वरत्नानां वेलेव सुकृताम्बुधेः ॥ ५४ ॥
 

 
( द्वादशभिः कुलकम् । )
 

 
यस्यां प्रासादशृङ्गेषु लग्नं मार्ताण्डमण्डलम् ।

संधत्ते वीक्षमाणानां सौवर्णकलशभ्रमम् ॥ ५५ ॥
 

 
यत्सौधचन्द्रशालासु विहरन्त्यो मृगेक्षणाः ।

शशाङ्कमवलम्बन्ते मुक्ताकन्दुकशङ्कया ॥ ५६ ॥
 

 
यत्र सौधेषु सङ्गीतमृदङ्गप्रतिनादिषु ।

अकाण्डे ताण्डवारम्भं वितन्वन्ति शिखण्डिनः ॥ ५७ ॥