This page has not been fully proofread.

78
 
MADHURAVIJAYAM
 
कस्तुरीहरिणाक्रान्तकर्पूरकदलीतलैः ।
मनोभवमहीदुर्गैर्भैहिता केलिपर्वतैः ॥ ४८ ॥
 
कमलामोदमधुरैः कलहंसकुलाकुलैः ।
क्रीडासरोभिः सहिता मणिसोपानमञ्जुलैः ॥ ४९ ॥
 
यशसस्तोमैरिवाशेषनगरीविजयार्जितैः ।
सौघैः प्रकाशितोत्सेधा शरदम्भोदपाण्डरैः ॥ ५० ॥
 
विकसद्वनितावल्लीविलासवनवाटिका ।
दक्षिणाशासरोजाक्षीफाललीलाललाटिका ॥ ५१ ॥
 
द्विजराजसमुल्लास नित्यराकानिशीथिनी ।
गन्धर्वगण सान्निध्य नव्य दिव्यवरूथिनी ॥ ५२ ॥
 
भुजङ्गसङ्घसंवासभूतेशमुकुटस्थली ।
सुमनस्तोमसंचारसुवर्णगिरिमेखला ॥ ५३ ॥
 
लीलेव दिष्टिवृद्धीनां शालेव सकलश्रियाम् ।
मालेव सर्वरत्नानां वेलेव सुकृताम्बुधेः ॥ ५४ ॥
 
( द्वादशभिः कुलकम् । )
 
यस्यां प्रासादशृङ्गेषु लग्नं मार्ताण्डमण्डलम् ।
संधत्ते वीक्षमाणानां सौवर्णकलशभ्रमम् ॥ ५५ ॥
 
यत्सौधचन्द्रशालासु विहरन्त्यो मृगेक्षणाः ।
शशाङ्कमवलम्बन्ते मुक्ताकन्दुकशङ्कया ॥ ५६ ॥
 
यत्र सौधेषु सङ्गीतमृदङ्गप्रतिनादिषु ।
अकाण्डे ताण्डवारम्भं वितन्वन्ति शिखण्डिनः ॥ ५७ ॥