This page has been fully proofread once and needs a second look.

MADHURAVIJAYA M
 
यस्याङ्घ्रिपीठसंघर्षरेखालाञ्छितमौल्यः ।

आशास्वरिनृपा एव जयस्तम्भतया स्थिताः ॥ ३८ ॥
 

 
<error>
यत्प्रतापानलज्वालामालाकबलिता</error><fix>यत्प्रतापानलज्वालामालाकवलिता</fix> इव ।

कीर्तयः शत्रुभूपानामासन् मलिनमूर्तयः ॥ ३९ ॥
 

 
बद्धाः सभाङ्गणे यस्य भान्ति स्म जयसिन्धुराः ।

बन्दीकृता इवाम्भोदा जैत्रयात्रानिरोधिनः ॥ ४० ॥
 

 
यस्य सेनातुरङ्गाणां खुरैरुत्थापितं रजः ।

अकाण्डे राहुसन्देहं मार्ताण्डस्योदपादयत् ॥ ४१ ॥

 
यद्विभूतिस्तुतौ स्वल्पा लक्ष्मीर्यक्षामरेशयोः ।

दूरे दुर्योधनादीनां संपत्सादृश्यकल्पना ॥ ४२ ॥
 

 
तस्यासीद् विजया नाम विजयार्जितसंपदः ।

राजधानी बुधैः श्लाच्घ्या शक्रस्येवामरावती ॥ ४३
 

 
सुरलोकान्त संक्रान्तस्वर्णदीमत्सरादिव ।

परिखाकारतां यान्त्या परीता तुङ्गभद्रया ॥ ४४ ॥
 

 
लक्ष्मीलतालवालेन क्ष्मावधूनाभिशोभिना ।

चक्राचलप्रकारेण प्राकारेण परिष्कृता ॥ ४५ ॥
 

 
स्फुरन्मणिप्रभाहूतपुरुहूतशरासनैः ।

सुमेरुश्शृङ्गसंकाशैर्गोपुरैरुपशोभिता ॥ ४६ ॥
 

 
उत्फुल्लचम्पकाशोकनागकेसरकेसरैः ।

वसन्तवासभवनैरारामैरभितो वृता ॥ ४७ ॥
 
77