This page has been fully proofread once and needs a second look.

76
 
MADHURĀVIJAYAM
 
तिग्मांशोरपि तेजस्वी शीतांशोरपि शीतलः ।

सागरादपि गम्भीरः सुमेरोरपि यः स्थिरः ॥ २८ ॥
 

 
विवेकमेव सचिवं धनुरेव वरूथिनीम् ।

बाहुमेव रणोत्साहे यः सहायममन्यत ॥ २९ ॥
 

 
जिष्णुना भुवनेशेन श्रीदेन समवर्तिना ।

सान्निध्यं लोकपालानां धरणौ येन दर्शितम् ॥ ३० ॥
 

 
हृदये चन्दनालेपैः कर्णे मौक्तिककुण्डलैः ।

सतां मुखे च कर्पूरैर्यस्याभावि यशोभरैः ॥ ३१ ॥
 

 
विरोधिवाहिनीनाथविक्षोभणपटीयसा ।

भुजेन भूभृता यस्य प्राप्ता कीर्तिमयी सुधा ।॥ ३२ ॥
 

 
यस्य कीर्त्या प्रसर्पन्त्या गुणकर्पूरशालिनः ।

जगदण्डकरण्डस्य क्षौमकञ्चुलिकायितम् ॥ ३३ ॥
 

 
परिपन्थिनृपप्राणपवनाहारदारुणः ।
 

असृजद् भुजगो यस्य कृपाणः कीर्तिकञ्चुकम् ॥ ३४ ॥
 

 
यदीयो दक्षिणः पाणिः कृपाणीग्रहणच्छलात् ।

अशिक्षत विपक्षश्रीवेणीकर्षणकौशलम् ॥ ३५ ॥
 

 
लक्ष्मीश्चिराज्जगद्रक्षाजागरूकमुपेत्य यम् ।

योगनिद्रा जडं विष्णुं कदाचिदपि नास्मरत् ॥ ३६ ॥
 

 
कलिकालमहार्मप्लुष्टो धर्ममहीरुहः ।

यस्य दानाम्बुसेकेन पुनरङ्कुरितोऽभवत् ॥ २७ ॥