2023-02-18 17:05:52 by Alok Kumar
This page has been fully proofread once and needs a second look.
प्रबन्धमीषन्मात्रोऽपि दोषो नयति दूष्यताम् ।
कालागरुद्रवभरं शुक्तिक्षारकणो यथा ॥ १८ ॥
निर्दोषाप्यगुणा वाणी न विद्वज्जनरञ्जिनी ।
पतिव्रताप्यरूपा स्त्री परिणेत्रे न रोचते ॥ १९ ॥
गुणं विहाय काव्येषु <error>दुष्ठो</error><fix>दुष्टो</fix><error>दुष्ठो</error> दोषं गवेषते ।
वनेषु त्यक्तमाकन्दः काको निम्बमपेक्षते ॥ २० ॥
चौर्यार्जितेन काव्येन वियत् दीव्यति दुर्जनः ।
आहार्यरागो न चिरं रुचिरः कृत्रिमोपलः ॥ <error>१२</error><fix>२१</fix><error>१२</error> ॥
तार्किका बहवः सन्ति शाब्दिकाश्च सहस्रशः ।
विरलाः कवयो लोके सरलालापपेशलाः ॥ २२ ॥
करोति कीर्तिमर्थाय कल्पते हन्ति दुष्कृतम् ।
उन्मीलयति चाह्लादं किं न सूते कवेः कृतिः ॥ २३ ॥
न प्रार्थनीयः सत्काव्यश्रुत्यै सहृदयो जनः ।
स्वादुपुष्परसास्वादे कः प्रेरयति षट्पदम् ॥ २४ ॥
तन्मदीयमिदं काव्यं विबुधाः श्रोतुमर्हथ ।
मधुराविजयं नाम चरितं कम्पभूपतेः ॥ २५ ॥
आसीत् समस्तसामन्तमस्तकन्यस्तशासनः ।
बुक्कराज इति ख्यातो राजा हरिहरानुजः ॥ २६ ॥
यः शेष इव नागानां नगानां हिमवानिव ।
दैत्यारिरिव देवानां प्रथमः पृथिवीभुजाम् ॥ २७ ॥
कालागरुद्रवभरं शुक्तिक्षारकणो यथा ॥ १८ ॥
निर्दोषाप्यगुणा वाणी न विद्वज्जनरञ्जिनी ।
पतिव्रताप्यरूपा स्त्री परिणेत्रे न रोचते ॥ १९ ॥
गुणं विहाय काव्येषु <error>दुष्ठो</error><fix>दुष्टो</fix>
वनेषु त्यक्तमाकन्दः काको निम्बमपेक्षते ॥ २० ॥
चौर्यार्जितेन काव्येन वियत् दीव्यति दुर्जनः ।
आहार्यरागो न चिरं रुचिरः कृत्रिमोपलः ॥ <error>१२</error><fix>२१</fix