2023-02-17 20:22:20 by ambuda-bot
This page has not been fully proofread.
MADHURAVIJAYAM
प्रबन्धमीषन्मात्रोऽपि दोषो नयति दृप्यताम् ।
कालागरुद्रवभरं शुक्तिक्षारकणो यथा ॥ १८ ॥
निर्दोषाप्यगुणा वाणी न विद्वज्जनरञ्जिनी ।
पतिव्रताप्यरूपा स्त्री परिणेत्रे न रोचते ॥ १९ ॥
गुणं विहाय काव्येषु दुष्ठो दोषं गवेषते ।
वनेषु त्यक्तमाकन्दः काको निम्बमपेक्षते ॥ २० ॥
चौर्यार्जितेन काव्येन वियत् दीव्यति दुर्जनः ।
आहार्यरागो न चिरं रुचिरः कृत्रिमोपलः ॥ १२ ॥
तार्किका बहवः सन्ति शाब्दिकाश्च सहस्रशः ।
बिरलाः कवयो लोके सरलालापपेशलाः ॥ २२ ॥
करोति कीर्तिमर्थाय कल्पते हन्ति दुष्कृतम् ।
उन्मीलयति चाहादं किं न सूते कवेः कृतिः ॥ २३ ॥
न प्रार्थनीयः सत्काव्यश्रुत्यै सहृदयो जनः ।
स्वादुपुष्परसास्वादे कः प्रेरयति षट्पदम् ॥ २४ ॥
तन्मदीयमिदं काव्यं विबुधाः श्रोतुमर्हथ ।
मधुराविजयं नाम चरितं कम्पभूपतेः ॥ २५ ॥
आसीत् समस्तसामन्तमस्तकन्यस्तशासनः ।
बुक्कराज इति ख्यातो राजा हरिहरानुजः ॥ २६ ॥
यः शेष इव नागानां नगानां हिमवानिव ।
दैत्यारिरिव देवानां प्रथमः पृथिवीभुजाम् ॥ २७ ॥
75