This page has been fully proofread once and needs a second look.

वाणीपाणिपरामृष्टवीणानिक्वाणहारिणीम् ।
भावयन्ति कथं वान्ये भट्टबाणस्य भारतीम् ॥ ८ ॥
 
विमर्दव्यक्तसौरभ्या भारती भारवेः कवेः ।
धत्ते वकुलमालेव विदग्धानां चमक्रियाम् ॥ ९ ॥
 
आचार्यदण्डिनो वाचामाचान्तामृतसंपदाम् ।
विकासो वेधसः पत्न्या विलासमणिदर्पणः ॥ १० ॥
 
सा कापि सुरभिः शङ्के भवभूतेः सरस्वती ।
कर्णेषु लब्धवर्णानां सूते सुखमयीं सुधाम् ॥ ११ ॥
 
<fixerror>मन्दारमञ्जरीस्यन्दि मकरन्दरसाब्धयः</error><fix><error>मन्दारमञ्जरीस्यन्दि मकरन्दरसाब्धयः</errorfix> ।
कस्य नाह्लादनायालं कर्णामृतकवेर्गिरः ॥ १२ ॥
 
तिक्कयस्य कवेः सूक्तिः कौमुदीव कलानिधेः ।
सतृष्णैः कविभिः स्वैरं चकोरैरिव सेव्यते ॥ १३ ॥
 
चतुस्सप्ततिकाव्योक्तिव्यक्तवैदुष्यसंपदे ।
अगस्त्याय जगत्यस्मिन् स्पृहयेत् को न कोविदः ॥ १४ ॥
 
स्तुमस्तमपरं व्यासं <fixerror>गङ्गाधर महाकविम्</error><fix>गङ्गाधरमहाकविम्</fix><error>गङ्गाधर महाकविम्</error> ।
नाटकच्छद्मना दृष्टां यश्चक्रे भारत कथाम् ॥ १५ ॥
 
चिरं स विजयीभूयात् विश्वनाथः कवीश्वरः ।
यस्य प्रसादात् सार्वज्ञ्यं समिन्धे मादृशेष्वपि ॥ १६ ॥
 
क्वचिदर्थः कचिच्छब्दः क्वचिद् भावः कचिद् रसः ।
यत्रैते सन्ति सर्वेऽपि स निबन्धो न लभ्यते ॥ १७ ॥