This page has been fully proofread once and needs a second look.

74
 
MADHURAVIJAYAM
 
वाणीपाणिपरामृष्टवीणानिकाक्वाणहारिणीम् ।

भावयन्ति कथं वान्ये भट्टबाणस्य भारतीम् ॥ ८ ॥
 
विम

 
विमर्द
व्यक्तसौरभ्या भारती भारवेः कवेः ।

धत्ते कुलमालेव विदग्धानां चमक्रियाम् ॥ ९ ॥
 

 
आचार्यदण्डिनो वाचामाचान्तामृतसंपदाम् ।

विकासो वेधसः पत्न्या विलासमणिदर्पणः ॥ १० ॥

 
सा कापि सुरभिः शङ्के भवभूतेः सरस्वती ।

कर्णेषु लब्धवर्णानां सूते सुखमयीं सुधाम् ॥ ११ ॥
 

 
<fix>
मन्दारमञ्जरीस्यन्दि मकरन्दरसाब्धयः
 
</fix><error>मन्दारमञ्जरीस्यन्दि मकरन्दरसाब्धयः</error> ।
कस्य नाह्वालादनायालं कर्णामृतकवेर्गिरः ॥ १२ ॥
 

 
तिक्कयस्य कवेः सूक्तिः कौमुदीव कलानिधेः ।

सतृष्णैः कविभिः स्वैरं चको रैरिव सेव्यते ॥ १३ ॥
 

 
चतुस्सप्ततिकाव्योक्तिव्यक्तवैदुप्ष्यसंपदे ।

अगस्त्याय जगत्यस्मिन् स्पृहयेत् को न कोविदः ॥ १४ ॥
 

 
स्तुमस्तमपरं व्यासं <fix>गङ्गाधर महाकविम्
</fix><error>गङ्गाधर महाकविम्</error> ।
नाटकच्छद्मना दृष्टां यश्चक्रे भारत कथाम् ॥ १५ ॥
 

 
चिरं स विजयीभूयात् विश्वनाथः कवीश्वरः ।

यस्य प्रसादात् सार्वज्ञ्यं समिन्धे मादृशेष्वपि ॥ १६ ॥
 

 
क्वचिदर्थः कचिच्छब्दः क्वचिद् भावः कचिद् रसः ।
यत्रे

यत्रै
ते सन्ति सर्वेऽपि स निबन्धो न लभ्यते ॥ १७ ॥