This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 
मधुराविजयम्
 
अथवा वीरकम्परायचरितं
 
श्रीगङ्गादेव्या विरचितम् ।
 
प्रथमः सर्गः ।
 
कल्याणाय सतां भूयात् देवो दन्तावलाननः ।
<fix>शरणागतसङ्कल्पकल्पनाकल्पपादपः</fix><error>शरणागतसङ्कल्प कल्पनाकल्पपादपः</error> ॥ १ ॥
 
स्रष्टुः स्त्री [पुंसनिर्मा*] णमातृकारूपधारिणौ ।
प्रपद्ये प्रतिबोधाय चित्प्रकाशात्मकौ शिवौ ॥ २ ॥
 
<fix>महाकविमुखाम्भोजमणिपञ्जरशारिकाम्</fix><error>महाकविमुखाम्भोज मणिपञ्जरशारिकाम्</error> ।
चैतन्यजलधिज्योत्स्नां देवीं वन्दे सरस्वतीम् ॥ ३॥
 
असाधारणसार्वज्ञ्यं विलसत्सर्वमङ्गलम् ।
क्रियाशक्तिगुरुं वन्दे त्रिलोचनमिवापरम् ॥ ४॥
 
चेतसोऽस्तु प्रसादाय सतां प्राचेतसो मुनिः ।
पृथिव्यां पद्यनिर्माणविद्यायाः प्रथमं पदम् ॥ ५ ॥
 
वैयासिके गिरां गुम्फे पुण्ड्रेक्षाविव लभ्यते ।
सद्यः सहृदयाह्लादी सारः पर्वणि पर्वणि ॥ ६ ॥
 
दासतां कालिदासस्य कवयः के न बिभ्रति ।
इदानीमपि तस्यार्थानुपजीवन्त्यमी यतः ॥ ७ ॥