This page has been fully proofread once and needs a second look.

K
 
॥ श्रीः ॥
 

 
मधुराविजयम्
 

 
अथवा वीरकम्परायचरितं
 

 
श्रीगङ्गादेव्या विरचितम् ।
 

 
प्रथमः सर्गः ।
 

 
कल्याणाय सतां भूयात् देवो दन्तावलाननः ।

<fix>
शरणागतसङ्कल्प कल्पना कल्पपादपः</fix><error>शरणागतसङ्कल्प कल्पनाकल्पपादपः</error> ॥ १ ॥
 

 
स्रष्टुः स्त्री [पुंसनिर्मा*] णमातृकारूपधारिणौ ।

प्रपद्ये प्रतिबोधाय चित्प्रकाशात्मकौ शिवौ ॥ २ ॥
 

 
<fix>
महाकविमुखाम्भोज मणिपञ्जरशारिकाम्
</fix><error>महाकविमुखाम्भोज मणिपञ्जरशारिकाम्</error> ।
चैतन्यजलधिज्योत्स्नां देवीं वन्दे सरस्वतीम् ॥ ३॥
 

 
असाधारणसार्वज्ञ्यं विलसत्सर्वमङ्गलम् ।

क्रियाशक्तिगुरुं वन्दे त्रिलोचनमिवापरम् ॥ ४॥
 

 
चेतसोऽस्तु प्रसादाय सतां प्राचेतसो मुनिः ।

पृथिव्यां पद्यनिर्माणविद्यायाः प्रथमं पदम् ॥ ५ ॥

 
वैयासिके गिरां गुम्फे पुण्ड्रेक्षाविव लभ्यते ।

सद्यः सहृदयाहाह्लादी सारः पर्वणि पर्वणि ॥ ६ ॥

 
दासतां कालिदासस्य कवयः के न बिभ्रति ।

इदानीमपि तस्यार्थानुपजीवन्त्यमी यतः ॥ ७ ॥