2026-04-30 05:37:38 by ambuda-bot
This page has not been fully proofread.
सर्गः ९ ]
श्रीमदाचार्य सरस्वती संवादः
जानामि देवीं भवतीं विधातुर्देवस्य भार्या पुरभित्सगर्भ्याम् ।
उपात्तलक्ष्म्यादिविचित्ररूपां गुप्त्यै प्रपञ्चस्य कृतावताराम् ॥
व्रज जननि तदा त्वं भक्तचूडामणिस्ते
निजपदमनुदास्याम्यभ्यनुज्ञां यदैतुम् ।
इति निजवचनेऽस्मिञ्छारदा संमतेऽसौ
मुनिरथ मुदितोऽभून्मण्डनं हृद्बुभुत्सुः ॥
इति श्रीमाधवीये तन्मण्डनार्यकथापरः ।
संक्षेपशङ्करजये सर्वोऽसावष्टमोऽभवत् ॥ ८ ॥
आदितः श्लोकाः 920.
अथ नवमः सर्गः
118 11
श्रीमदाचार्य सरस्वती संवादः ॥
अथ संयमिक्षितिपतेर्वचनैर्निगमार्थनिर्णयकरैः सनयैः ।
शमिताग्रहोऽपि पुनरप्यवदत् कृतसंशयः सपदि कर्मज: ॥
यतिराज संप्रति ममाभिनवान्न विषादितोऽस्म्यपजयादपि तु ।
अपि जैमिनीयवचनान्यहहोन्मथितानि हीति भृशमस्मि कृशः ॥
स हि वेश्यागतमतीतमपि प्रियकृत्समस्तजगतोऽधिकृतः ।
निगमप्रवर्तनविधौ स कथं तपसां निधिर्वितथसूत्रपदः ॥
इति संदिहानमवदत्तमसौ न हि जैमिनावपनयोऽस्ति मनाक् ।
प्रमिमीमहे न वयमेव मुनेर्हृदयं यथावदनभिज्ञतया ॥
यदि विद्यते कविजनाविदितं हृदयं मुनेस्तदिह वर्णय भोः ।
यदि युक्त पत्र भवता कथितं हृदि कुर्महे दलदहंकृतयः ॥
अभिसंधिमानपि परे विषयप्रसरन्मती ननुजिघृक्षुरसौ ।
93
१३५
१३६
२
३
तदवाप्तिसाधनतया सकलं सुकृतं न्यरूपयदिति स्म परम् ॥ ६