Proofing

This page has not been fully proofread.

92
 
श्रीमच्छङ्करदिग्विजये
 
[ अष्टमः
 
भवञ्छरीरादितरत्र वेशः कथं च शारीरपदाभिधेयः ।
नभः शरीरेsपि भवत्यथापि न केsपि शारीरमितीरयन्ति ॥
यद्येष मन्त्रोऽनभिधाय जीवप्राज्ञौ वदेद्बुद्धिशरीरभाजौ ।
अन्तीति भोक्तृत्वमचेतनाया बुद्धेर्वदेत्तर्हि कथं प्रमाणम् ॥
अदाहकस्याप्ययसः कृशानोराश्लेषणाद्दाहकता यथाssस्ते ।
तथैव भोक्त्रमचेतनाया बुद्धेरपि स्याच्चिदनुपवेशात् ॥
छायातपौ यतीव भिन्नौ जीवेश्वरौ तद्वदिति ब्रुवाणा ।
ऋतं पिबन्ताविति काठकेषु श्रुतिस्त्वभेदश्रुतिबाधिकाऽस्तु ॥
भेदं वदन्ती व्यवहारसिद्धं न बाधतेऽभेदपरश्रुतिं सा ।
एषात्वपूर्वार्थतया बलिष्ठा भेदश्रुतेः प्रत्युत बाधिका स्यात् ॥
मानान्तरोपोलिता हि भेदश्रुतिर्बलिष्ठा यमिनां वरेण्य ।
तद्वाधितुं सा प्रभवत्यभेदश्रुति प्रमाणान्तरबाधितार्थाम् ॥
प्राबल्यमापादयति श्रुतीनां मानान्तरं नैव बुधाग्रयायिन् ।
गतार्थतादानमुखेन तासां दौर्बल्यसम्पादकमेव किन्तु ॥
 
इत्याद्या दृढयुक्तिरस्य शुशुभे दत्तानुमोदा गिरां
देव्या तादृशविश्वरूप भसावष्टंभमुष्टिधया ।
भर्तृन्यास विलक्ष्यसूक्तिजननी साक्षित्वकुक्षिभरि :
 
१२४
 
१२५
 
१२६
 
१२७
 
१२८
 
१२९
 
१३०
 
सश्लाघात पुष्पवृष्टिलहरी सौगन्ध्यपाणिन्धया ॥ १३१
 
इत्थं यतिक्षितिपतेरनुमोद्य युक्ति मालां च मण्डनगले मलिनामवेक्ष्य ।
भिक्षार्थमुच्चलतमद्य युवामिती मावाचष्ट तं पुनरुवाच यतीन्द्रमम्बा ॥ १३२
कोपातिरेकवशतः शपता पुरा मां दुर्वाससा तदवधिर्विहितो जयस्ते ।
साऽहं यथागतमुपैमि शमिप्रवीरेत्युक्त्वा ससंभ्रममुं निजधाम यान्तीम् ॥
बबन्ध निःशङ्कमरण्यदुर्गामन्त्रेण तां जेतुमना मुनीन्द्रः ।
 
जयोऽपि तस्याः स्वमतैक्य सिद्ध्यै सार्वज्ञतः स्वस्य न मानहेतोः ॥ १३४