2026-04-30 05:37:38 by ambuda-bot
This page has not been fully proofread.
सर्गः ८ ]
श्रीमदाचार्य मण्डन मिश्र संवादः
91
११४
भो 'द्वा सुपर्णा सयुजा सखाये' त्याद्या श्रुतिर्भेदमुदीरयन्ती ।
जीवेशयोः पिप्पलभोक्तभोक्तोस्तयोरभेदरश्रुतिबाधिकाऽस्तु ॥ ११२
प्रत्यक्षसिद्धे विफले परात्मभेदे श्रुतिर्नो नयवित्प्रमाणम् ।
स्यादन्यथा मानमतत्परोऽपि स्वार्थेऽर्थवादः सकलोsपि विद्वन् ॥ ११३
स्मृतिसिद्धार्थविबोधि वाक्धं यथेष्यते मूलतया प्रमाणम् ।
प्रत्यक्षसिद्धार्थक वाक्यमेवं स्यादेव तन्मूलतया प्रमाणम् ॥
श्रुतिः स्मृतेऽर्थे यदि वेदविद्भिर्भवेन्न तन्मूलतया प्रमाणम् ।
कथं भवेद्वेदकथानभिज्ञैर्ज्ञातेऽपि भेदे परजीवयोः सा ॥
जीवेश्वरौ सा वदतीत्युपेत्य प्रावोचमेतत्परमार्थतस्तु ।
विविच्य सत्वात्पुरुषं समस्त संसारराहित्यममुष्य वक्ति ॥
यदीयमाख्यात्यथ सजीव विहाय सर्वज्ञशरीरभाजौ ।
जडस्य भोक्तृत्वमुदाहरन्ती प्रामाण्यमन् कथमश्नुवीत ॥
११५
११६
११७
न चोदनीया वयमत्र विद्वन् यतस्त्वया पैङ्गिरहस्यमेव ।
अतीति सवं त्वभिपश्यति ज्ञ इति स्म सम्यग्विवृणोति मन्त्रम् ॥ ११८
शरीरवाची ननु सवशब्दः क्षेत्रज्ञशब्दः परमात्मवाची ।
तत्राप्यतो नान्यपरत्वमस्य वाक्यस्य पैडयोदितवर्त्मनाऽपि ॥
११९
तदेतदित्यादिगिरा हि चित्ते प्रदर्शिता सत्वपदस्य वृत्तिः ।
क्षेत्रज्ञशब्दस्य च वृत्तिरुक्ता शारीर के द्रष्टरि तत्र विद्वन् ॥
१२०
येनेति हि स्वप्नदृशिक्रियायाः कर्तोच्यते तत्र स जीव एव ।
क्षेत्रज्ञशब्दाभिहितश्च योगिन् स्यात्स्वमक् सर्वविदीश्वरोऽपि ॥ १२१
तिङ्प्रत्ययेनाभिहितोऽत्र कर्ता ततस्तृतीया करणेऽभ्युपेया ।
द्रष्टा च शारीरतया मनीषिन् विशेष्यते तेन स नेश्वरः स्यात् ॥ १२२
वृत्तिः शरीरे भवतीत्यमुष्मिन्नर्थे हि शारीरपदस्य योगिन् ।
तस्मिन् भवन् सर्वगतो महेशः कथं न शारीरपदाभिधेयः ॥ १२३