Proofing

This page has not been fully proofread.

90
 
90
 
श्रीमच्छङ्करदिग्विजये
 
नन्वेवमप्यस्त्यनुमानबाधोऽभेदश्रुतेः संयमिचक्रवर्तिन् ।
घटादिवद्ब्रह्मनिरूपितेन भेदेन युक्तोऽयमसर्ववित्वात् ॥
 
[ अष्टमः
 
१०२
 
१०३
 
किमेष भेदः परमार्थभूतः प्रसाध्यते काल्पनिकोऽथवाऽऽये ।
तानि रमे तु विद्वन्नूरीकृतोऽस्माभिरसाधनीयः ॥
स्वप्रत्ययाबाधयभिदाश्रयत्वं साध्यं घटादौ च तदस्ति योगिन् ।
वयाऽऽत्मबोधेन भिदान बाध्येत्यनभ्युपेतेति न कोऽपि दोषः ॥ १०४
ननु स्वशब्देन सुखादिमान्वा विवक्षितस्तद्विधुरोऽथवाऽऽत्मा ।
आद्येोऽस्मदिष्टं ननु साध्यमन्त्ये दृष्टान्तहानिः पुनरेव ते स्यात् ॥ १०५
यो गिन्ननोपाधिकभेदवच्त्वं विवक्षितं साध्यमिह त्वदिष्टः ।
औपाधिकत्वीश्वरजीवभेदो घटेशभेदो निरुपाधिकश्च ॥
घटेशभेदेऽप्युपधि विद्या तवानुमानेषु जडत्वमेव ।
चित्वादभिन्नः परवत्परस्मादात्मेति वाऽत्र प्रतिपक्षहेतुः ॥
 
१०६
 
१०७
 
धर्मप्रमा बाध्यशरीरिभेदो ह्यसंसृतौ ब्रह्मणि साध्यमिष्टम् ।
त्वयेष्यते ब्रह्मधियाऽऽत्मभेदो बाध्यो घटादिप्रमया त्वबाध्यः ॥ १०८
 
धात् ।
 
किं कृत्स्त्रधर्मिप्रमया न बाध्यः किं वा स यत्किंचनधर्मिबोधा
घटाधिके ब्रह्मणि चात्मभेदस्यैक्यात् पुनः स्यान्ननु पूर्वदोषः ॥ १०९
किचागुणो वा सगुणो मनीषिन्विवक्ष्यते धर्मिपदेन नान्त्यः ।
भेदस्य तद्बुध्य विबाध्यतेष्टेर्नाद्यश्च तत्रोभयथाऽपि दोषात् ॥
किं निर्विशेषं प्रमितं न वाऽन्त्ये प्राप्ताऽऽश्रयासिद्धिरथाद्यकल्पे ।
शरीर्यभेदेन परस्य सिद्धेः प्राप्नोति धर्मिग्रहमानकोषः ॥
 
११०
 
१११
 
तत्र दृष्टान्तः प्रकृतिवत् - यथा प्रकृतौ कृतोपकाराः कुशाः प्रथममतिदेशेन
विकृतावुपकाराकांक्षिण्यां प्राप्ताः कल्योपकारच रमाविभिरपि शरैर्निर-
पेक्षैर्बाध्यन्ते तद्वत् । तथा च यथा प्रथमप्रवृत्तं दुबलं पूर्वनैमित्तिकमेव
पश्चात्प्रवृत्तेन प्रबलेनोत्तरेण नैमित्तिकेन बाध्यम्, तद्वद् यथोक्तं प्रत्यक्ष-
मेव यथोक्तश्रुत्या बाध्यम् । इति डिण्डिमः ॥