Proofing

This page has not been fully proofread.

सर्गः ८ ]
 
श्रीमदाचार्य मण्डन मिश्र संवादः
 
89
 
69
 
९५
 
९६
 
भिन्नोऽहमीशादिति भासते हि भेदस्य जीवात्म विशेषणत्वम् ।
तत्संनिकर्षोऽस्त्वथ सम्प्रयोगाभावेऽपि भेदेन्द्रिययोर्मनीषिन् ॥ ९४
अतिप्रसक्तेर्नतु केवलस्य विशेषणत्वस्य तदभ्युपेयम् ।
भेदाश्रये हीन्द्रियसन्निकृष्टे न सन्निकृष्टत्वमिहात्मनोऽस्ति ॥
भेदाश्रयात्मेन्द्रियसंनिकर्षो नेत्युक्तमेतच्चतुरं न यस्मात् ।
चित्तात्मनोद्रव्यतया द्वयोरप्यस्त्येव संयोगसमाश्रयत्वम् ॥
आत्मा विभुः स्यादथवाऽणुपात्रः संयोगिता नोभयथाऽपि युक्ता ।
दृष्टा हि सा सावयवस्य लोके संयोगिता सावयवेन योगिन ॥
मनोऽक्ष मित्यभ्युपगम्य भेदासङ्गित्वमुक्तं परमार्थतस्तु ।
साहाय्यकुल्लांचनपूर्वकस्य दीपादिवन्नेन्द्रियमेव चित्तम् ॥
भेदमा नेन्द्रियजाऽस्तु तर्हि साक्षिस्वरूपैव तथाऽपि योगिन् ।
तया विरोधात्परमात्मजीवाभेदं कथं बोधयितुं प्रमाणम् ॥
प्रत्यक्षमात्मेश्वरयोर विद्यामायायुजोद्यतयति प्रभेदम् ।
श्रुतिस्तयोः केवलयोरभेदं भिन्नाश्रयत्वान्न तयोर्विरोधः ॥
स्याद्वा विरोधस्तदपि वृत्तं प्रत्यक्षमग्रेऽबलमेव बाध्यम् ।
प्राबल्यवत्या चरमप्रवृत्त्या श्रुत्या ह्यपच्छेदनयोक्तरीत्या * ॥
 
"
 
९९
 
१००
 
१०१
 
*पाष्ठं पारमर्षे सूत्रम - " पौर्वापयै पूर्वदौबल्यं प्रकृतिवत् " इति ।
ज्योतिष्टोमे बहिष्पवमानार्थ हविर्धानानिर्गच्छतामृत्विग्यजमानानां -
" अध्व प्रस्तोता ऽन्वारभते, प्रस्तोतारमुद्गाता, उद्गातारं प्रतिद्धर्ता "
इत्यादिनाऽन्वारंभणं विहितम् । तद्विच्छेद निमित्तं प्रायश्चित्तं श्रूयते-
"गाताऽपच्छिद्येऽदक्षिणं तं यज्ञमिट्ठा तेन पुनर्यजेत तत्र तद्
दद्यात् यत्पूर्वस्मिन् दास्यन् स्यात् यदि प्रतिहर्ताऽच्छिद्येत सर्ववेदसं
दद्यात् " इति । तत्त्रोद्गातृप्रतिहत्रः क्रमेण विच्छेदे विरुद्धप्रायश्चित्तयोः
समुच्चयासंभवात् किं पूर्व कार्यम उतापरमिति विराये, अनुपजातविरो-
धितया पूर्वमिति प्राप्ते - राद्धान्तः, पौर्वापर्ये सति निमित्तयोः पूर्वस्य
नैमित्तिकस्य दौर्बल्यम, उत्तरस्य पूर्वनिरपेक्षस्य तद्बाधकतयोतत्वात्,
पूर्वोदयकाल उत्तरस्याप्राप्तत्वेन पूर्वेण बाध्यत्वायोगात् । तदुक्तम-
पूर्व परमज्ञातत्वादबाधित्वैव जायते ।
परस्यानन्यथोत्पादानत्वबाधेन संभवः ॥ इति
 
"