Proofing

This page has not been fully proofread.

88
 
श्रीमच्छङ्करदिग्विजये
 
तर्ह्यस्तु जीवे परमात्मदृष्टिविधायकः कर्मसमृद्धयेऽर्हन् ।
अब्रह्मणि ब्रह्मधियं विधत्ते यथा मनोऽन्नार्क नभस्वदादौ ॥
संश्रूयतेऽन्यत्र यथा लिङादिर्विधायको ब्रह्मविभावनाय ।
तथा विधेरश्रवणान्मनीषिन् संजाघटीत्यत्र कथं विधानम् ॥
यद्वत्प्रतिष्ठाफलदर्शनेन विधिर्यतीनां वर रात्रिसत्रे ।
प्रकल्प्यते तद्वदिहापि मुक्तिफलश्रुतेः कल्पयितुं स युक्तः ॥
तर्हि क्रियाजन्यतया विमुक्ति: स्वर्गादिवद्धन्त विनश्वरा स्यात् ।
उपासना कर्तुमकर्तुमन्यथा वा कर्तुमर्दा मनसः क्रियैव ॥
मा भूदिदं तत्वमसीति वाक्यमुपासनापर्यवसायि कामम् ।
किन्त्वस्य जीवस्य परेण साम्यप्रत्यायकं सत्तम बोभवीतु ॥
किं चेतनत्वेन विवक्ति साम्यं सार्वश्यसार्वात्म्यमुखैर्गुणैर्वा ।
आद्ये प्रसिद्धं न खलूपदेश्यमन्ते स्वसिद्धान्तविरुद्धता स्यात् ॥
नित्यत्वमात्रेणं मुने परात्मगुणोपमानैः सुखबोधपूर्वैः ।
गुणैरविद्यावृतितोऽपतीतैः साम्यं ब्रवीत्वस्य ततो न दोषः ॥
यद्येवमेतस्य परत्वमेव प्रत्याययत्वत्र दुराग्रहः कः ।
त्वयैव तस्य प्रतिभासशङ्का विद्वन्नविद्यावरणान्निरस्ता ॥
भोवेतनत्वेन शरीरिसाम्यमावेद्यतापस्य जगत्मसूतेः ।
चिदुत्थितत्वेन परोदितस्याप्यणुप्रधानप्रभृतेर्निरासः ॥
 
इन्तैवमस्तीति तदा प्रयोगः स्यावन्मते तत्त्वमसीति न स्यात् ।
तदैक्षतेत्यत्र जडत्वशङ्काव्यावर्तनाच्चात्र पुनर्न चोद्यम् ॥
न त्वमप्यैक्यपरत्वमस्य प्रत्यक्ष पूर्वप्रमितिप्रकोपात् ।
न युज्यते तज्जपमात्र योगिस्वाध्याय विध्याश्रितमभ्युपेयम् ॥
अक्षेण चेद्भेदमितिस्तदा स्यादभेदवादिश्रुतिवाक्यवाधः ।
असन्निकर्षान्न भवेद्धि भेदममैव तेनास्य कुतो विरोधः ॥
 
[ अष्टमः
 
८२
 
८३
 
८४
 
८५
 
८६
 
८७
 
८८
 
८९
 
९०
 
९१
 
९२
 
९३