2026-04-30 05:37:37 by ambuda-bot
This page has not been fully proofread.
86
श्रीमच्छङ्करदिग्विजये
पत्या नियुक्ता पतिदेवता सा सदस्यभावे सुदती चकाशे ।
तयोर्विवेक्तुं श्रुततारतम्यं समागता संसदि भारतीय ॥
वृद्धवादोत्सुकतां तदीयां विज्ञाय विज्ञः प्रथमं यतीन्द्रः ।
परावरज्ञः स परावरैक्यपरां प्रतिज्ञामकरोत्स्वकीयाम् ॥
ब्रह्मकं परमार्थसच्चिदमलं विश्वपञ्चात्मना
शुक्ती रूप्यपरात्मनेव बहलाज्ञानावृतं भासते ।
तज्ज्ञानान्निखिलमपञ्च निलया स्वात्मव्यवस्था परं
[ अष्टमः
५९
६०
निर्वाणं जनिमुक्तमभ्युपगतं मानं श्रुतेर्मस्तकम् ॥ ६१
बाढं जये यदि पराजयभागहं स्यां संन्यासम परिहृत्य कषायचेलम् ।
शुकं वसीय वसनं द्वयभारतीय वादे जयाजयफलपतिदीपिकाऽस्तु ॥
इत्थं प्रतिज्ञां कृतवत्युदारां श्रीशङ्करे भिक्षुत्ररे स्वकीयाम् ।
fare गृहमेधिर्यश्चक्रे प्रतिज्ञां स्वमतप्रतिष्ठाम् ॥
वेदान्ता न प्रमाणं चितिवपुषि पदे तत्र संगत्ययोगा-
त्पूर्वी भागः प्रमाणं पदचयगमिते कार्यवस्तुन्यशेषे ।
शब्दानां कार्यमात्रं प्रति समधिगता शक्तिरभ्युन्नतानां
६३
कर्मभ्यो मुक्तिरिष्टा तदिह तनुभृतामाऽऽयुषः स्यात्समाप्तेः ॥ ६४
वादे कृतेऽस्मिन्यदि मे जयान्यस्त्वयोदितात्स्याद्विपरीतभावः ।
येयं त्वयाऽभूद्गदिता प्रसाक्ष्ये जानाति चेत्सा भविता वधू ॥ ६५
जेतु: पराजित इहाश्रममादददीतेत्येतौ मिथः कृतपणौ यतिविश्वरूपौ ।
अम्बामुदार धिषणामभिषिच्य साक्ष्ये जल्पं वितेनतुरथो जयदत्तदृष्टी ॥
आवश्यकं परिसमाप्य दिने दिने तौ वादं समं व्यतनुतां किल सर्ववेदौ ।
एवं विजेतुमनसोरुप विष्टयोस्तां मालां गले न्यधित सोभयभारतीयम् ॥
माला यदा मलिनभावमुपैति कण्ठे यस्यापि तस्य विजयेतर निश्चयः स्यात् ।
उक्त गृहं गतवती गृहकर्मसक्ता भिक्षाशने पिचरितुं गृहिमस्करिभ्याम् ॥
अन्योन्यसञ्जयफले विहितादरौ तौ वाद विवादपरिनिर्णयमातनिष्टाम् ।
ब्रह्मादयः सुरवरा अपि वाहनस्थाः श्रोतुं तदीयसदने स्थितवन्त ऊर्ध्वम् ॥