Proofing

This page has not been fully proofread.

सर्गः ८ ]
 
श्रीमदाचार्य मण्डन मिश्र संवादः
 
85
 
४९
 
५०
 
५१
 
कः पाणिकोऽहं गृहमेधिसत्तमस्त्वं भिक्षुराजो वदतामनुत्तमः ।
जयाजयौ नौ सुपणौ विधीयतां ततः परं साधु वदाव सुस्मितौ ॥ ४८
अद्यातिधन्योऽस्मि यदार्थपादो मया सहाभ्यर्थयते विवादम ।
भविष्यते वादकथाsपरेयुर्माध्याह्निकं सम्प्रति कर्म कुर्याम् ॥
तथेति सूक्ते स्मितशङ्करेण भविष्यते वादकथा श्व एव ।
तत्साक्षिभावं व्रजतं मुनीन्द्रावित्यर्थयद्वादरजैमिनी सः ॥
विधाय भार्या विदुषीं सदस्यां विधीयतां वादकथा सुधीन्द्र ।
इत्थं सरस्वत्यवताराज्ञौ तद्धर्मपत्न्यास्तमभाषिषाताम् ॥
अथानुमोद्याभिहितं मुनिभ्यां स मण्डनार्यः प्रकृतं चिकीर्षुः ।
आमचे दैवोपगतान्मुनीन्द्राननीनिव त्रीन्मुनिशेखरांस्तान् ॥
भुक्त्वोपविष्टस्य मुनित्रयस्य श्रमापनोदाय तदीयशिष्यौ ।
अतिष्ठतां पार्श्वगतौ वटू द्वौ सचामरौ वीजनमाचरन्तौ ॥
अथ क्रियान्ते किल सूपविष्टास्त्रय्यन्तवेद्यार्थविदस्त्रयोsपी ।
अमन्त्रयंश्चारु परस्परं ते मुहूर्तमात्रं किमपि प्रहृष्टाः ॥
तेषां द्विजेन्द्रालय निर्गतानामदर्शनं जग्मतुरञ्जसा द्वौ ।
रेवातटे रम्यकदम्बाले देवालयेऽवस्थितवांस्तृतीयः ॥
इति स यतिवरेण्यो दैवयोगाद्गुरू-
णामितरजनदुरापं दर्शनं प्राप्य हृष्टः ।
तदुदितवचनानि श्रावयन्नात्मशि-
 
ध्याननयदमृततुल्यान्यात्मवित्तां त्रियामाम् ॥
 
प्रातः शोण सरोजबान्धवरुचिप्रद्योतिते व्योमनि
 
प्रख्यातः स विधाय कर्म नियतं प्रज्ञावतामग्रणीः ।
साकं शिष्यवरैः प्रपद्य सदनं सन्मण्डितं माण्डनं
 
५२
 
५३
 
५४
 
५५
 
५६
 
वादायोपविवेश पण्डितसभामध्ये मुनिर्येयवित् ॥ ५७
 
ततः समादिश्य सदस्यतायां सधर्मिणीं मण्डनपण्डितोऽपि ।
 
स शारदां नाम समस्त विद्याविशारदां वादसमुत्सुकोऽभूत् ॥ ५८