Proofing

This page has not been fully proofread.

84
 
श्रीमच्छङ्करदिग्विजये
 
[ अष्टमः
 
स चाब्रवीत्सौम्य विवाद भिक्षामिच्छन् भवत्संनिधिमागतोऽस्मि ।
साsन्योन्यशिष्यत्वपणा प्रदेया नास्त्यादरः माकृतभक्तभैक्ष्ये ॥ ३६
 
मम न किंचिदपि ध्रुवमीप्सितं श्रुतिशिरःपथविस्तृतिमन्तरा ।
अवहितेन मखेष्ववधीरितः स भवता भवतापहिमद्युतिः ॥ ३७
जगति सम्पति तं प्रथयाम्यहं समभिभूय समस्त विवादिनम् ।
स्वमपि संश्रय मे मतमुत्तमं विगद वा वद वाऽस्मि जितस्त्विति ॥ ३८
इति यतिप्रवरस्य निशम्य तद्वचनमर्थवदागत विस्मयः ।
 
परिभवेन नवेन महायशाः स निजगौ निजगौरवमास्थितः ॥ ३९
 
अपि सहस्रमुखे फणिनामके न विजितस्त्विति जातु फणत्ययम् ।
नच विहाय मतं श्रुतिसम्मतं मुनिमते निपतेत्परिकल्पिते ॥
अपि कदाचिदुदेष्यति कोविदः सरसवादकथाऽपि भविष्यति ।
इति कुतूहलिनो मम सर्वदा जयमहोऽयमहो स्वयमागतः ॥
भवतु सम्प्रति वादकथाssवयोः फलतु पुष्कलशास्त्र परिश्रमः ।
उपनता स्वयमेव न गृह्यते नवसुधा वसुधावसथेन किम् ॥
अयमहं यमहन्तुरपि स्वयं शमयिता मयि तावकसद्विगम् ।
सुकलहं कलहंसकलाभृतां दिश सुधांशुसुधामलसत्तनो ॥
अपि तु दुर्हृदयस्मयकाननक्षतिकठोरकुठारघुरन्धरा ।
न पटुता मम ते श्रवणान्तिकं ननु गताऽनुगताखिलदर्शना ॥
अत्यल्पमेतद्भवतेरितं मुने भैक्ष्यं प्रकुर्वे यदि वाददित्सुता ।
गतोद्यमोऽहं श्रुतवादवार्तया चिरेप्सितेयं वदिता न कश्चन ॥
 
४०
 
४१
 
४२
 
४३
 
४४
 
४५
 
वादं करिष्यामि न संदिहेत्र जयाजयौ नौ वदिता न कश्चित् ।
न कण्ठशोषैकफलो विवादो मिथो जिगीषू कुरुतस्तु वादम् ॥ ४६
वादे हि वादिप्रतिवादिनौ द्वौ विपक्षपक्षग्रहणं विधत्तः ।
 
का नौ प्रतिज्ञा वदतोश्च तस्यां किं मानमिष्टं वद कः स्वभावः ॥ ४७