Proofing

This page has not been fully proofread.

82
 
श्रीमच्छङ्करदिग्विजये
 
तपोमहिम्नैव तपोनिधानं सजैमिनि सत्यवतीतनूजम् ।
यथाविधि श्राद्ध विधौ निमन्त्र्य तत्पादपद्मान्यवने जयन्तम् ॥
तत्रान्तरिक्षादवतीर्य योगिवर्यः समागम्य यथार्हमेषः ।
द्वैपायनं जैमिनिमप्युभाभ्यां ताभ्यां सहर्ष प्रतिनन्दितोऽभूत् ॥
 
[ अष्टमः
 
१२
 
१३
 
अथ मार्गादवतीर्णमन्तिके मुन्योः स्थितं ज्ञान शिखोपवीतिनम् ।
संन्यास्य सावित्यवगत्य सोऽभवत्वृत्तिशास्त्र करतोऽपि कोपनः ॥ १४
तदाऽतिरुष्टस्य गृहाश्रमे शितुर्यतीश्वरस्यापि कुतूहलंभृतः ।
क्रमात्किलैवं बुधशस्तयोस्तयोः प्रश्नोत्तराण्यासुरथोत्तरोत्तरम् ॥ १५
 
कुतो मुण्ड्यागलान्मुण्डी पन्थास्ते पृच्छयते मया ।
किमाह पन्थास्त्वन्माता मुण्डेत्याह तथैव हि ॥
 
पन्थानं त्वमपृच्छस्त्वां पन्थाः प्रत्याह मण्डन ।
स्वन्मातेत्यत्र शब्दोऽयं न मां ब्रूयादपृच्छकम् ॥
अहो पीता किमु सुरा नैव श्वता यतः स्मर ।
किं त्वं जानासि तद्वर्णमदं वर्ण भवान् रसम् ॥
मत्तों जातः कलञ्जाशी विपरीतानि भाषते ।
'सत्यं ब्रवीति पितृवचत्तो जातः कलज्ज ॥
कन्यां वहसि दुर्बुद्धे गर्दभेनापि दुर्बहाम् ।
शिखायज्ञोपवीताभ्यां कस्ते भारो भविष्यति ॥
कन्यां वहामि दुर्बुद्धे तव पित्रापि दुर्बहाम् ।
शिखायज्ञोपवीताभ्यां श्रुतेर्भारो भविष्यति ॥
त्यक्त्वा पाणिगृहीती स्वामशक्त्या परिरक्षणे ।
शिष्यपुस्तकभारेच्छोर्व्याख्याता ब्रह्मनिष्ठता ॥
गुरुशुश्रूषणालस्यात्समावर्त्य गुरोः कुलात् ।
 
स्त्रियः शुश्रूषमाणस्य व्याख्याता कर्मनिष्ठता ॥
 
१६
 
१७
 
१८
 
१९
 
२०
 
२१
 
२२
 
२३