Proofing

This page has not been fully proofread.

सर्गः ८ ]
 
श्रीमदाचार्य मण्डनमिश्र संवादः
 
अथाष्टमः सर्गः ॥ ८॥
 
81
 
श्रीमदाचार्यमण्डन मिश्र संवादः ॥
 
अथ प्रतस्थे भगवान् प्रयागात्तं मण्डनं पण्डितमाशु जेतुम् ।
गच्छन् खसृत्या पुरमालुलोके माहिष्मतीं मण्डनमण्डितां सः ॥
अवातरद्रत्र विचित्रवमां विलोक्य तां विस्मितमानसोऽसौ ।
पुराणवत्पुष्करवर्तनीतः पुरोपकण्ठस्थ ने मना ॥
प्रफुल्लराजीववने बिहारी तरङ्गरिङ्गत्कणशीकराईः ।
रेवामरुत्कम्पितसालमाल: श्रमापहृद भाष्यकृतं सिषेवे ॥
 
तस्मिन् स विश्रम्य कृताह्निकः सन् खस्वस्तिकारोहणशालिनीने ।
गच्छन्नसौ मण्डनपण्डितको दासीस्तदीयाः स ददर्श मार्गे ॥
कुत्रालयो मण्डनपण्डितस्येत्येताः स पच्छ जलाय गन्त्रीः ।
ताश्चापि दृष्ट्वाऽद्भुतशङ्करं तं सन्तोषवत्यो ददुरुत्तरं स्म ॥
 
स्वतः प्रमाणं परतः प्रमाणं कीराङ्गना यत्र गिरं गिरन्ति ।
द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डितौकः ॥
फलदं कर्म फलपदोऽज: कीराङ्गना यत्र गिरं गिरन्ति ।
द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डितौकः ॥
जगद् ध्रुवं स्याज्जगदध्रुवं स्यात्कीराङ्गना यत्र गिरं गिरन्ति ।
द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डिततैकः ॥
पीत्वा तदुक्तीरथ तस्य गेहाद्गत्वा बहिः सद्म कवाटगुप्तम् ।
दुर्वेशमालोच्य स योगशक्त्या व्योमाध्वनाऽवातरदङ्गणान्तः ॥
तदा स लेखेन्द्रनिकेतनाभं स्फुरन्मरुञ्चञ्चल केतनाभम् ।
समग्रमा लोकत मण्डनस्य निवेशनं भूतलमण्डनस्य ॥
सौधाय संच्छन्ननभोवकाशं प्रविश्य तत्वाप्य कवेः सकाशम् ।
विद्याविशेषात्तयशःप्रकाशं ददर्श तं पद्मजसन्निकाशम् ॥
 

 

 

 
१०
 
११