2026-04-30 05:37:35 by ambuda-bot
This page has not been fully proofread.
सर्गः ७]
व्यासदर्शनादिचरितवर्णनम
यदी सन्देहपदप्रयोगाद्वयाजेन शास्त्रश्रवणाच्च हेतो: ।
ममोच्चदेशात्पततो व्यनंक्षीत्तदेकचक्षुर्विधिकल्पना सा ॥
79
79
९९
१००
१०१
१०२
एकाक्षरस्यापि गुरुः प्रदाता शास्त्रोपदेष्टा किमु भाषणीयम् ।
अहं हि सर्वज्ञगुरोरधीत्य प्रत्यादिशे तेन गुरोर्महागः ॥
तदेवमित्यं सुगतादधीत्य पाघातयं तत्कुलमेव पूर्वम् ।
जैमिन्युपज्ञेऽभिनिविष्टचेताः शास्त्रे निरास्थं परमेश्वरं च ॥
दोषद्वयस्यास्य चिकीर्षुरर्हन यथोदितां निष्कृतिमाश्रयाशम् ।
प्राविक्षमेषा पुनरुक्तभूता जाता भवत्पाद निरीक्षणेन ॥
भाष्यं प्रणीतं भवतेति योगिनाकर्ण्य तत्रापि विधाय वृत्तिम् ।
यशोऽधिगच्छेयमिति स्म वाञ्च्छा स्थिता पुरा सम्प्रति किं तदुक्त्या ॥
जाने भवन्तमहमायेजनार्थजातमद्वैतरक्षणकृते विहितावतारम् ।
प्रागेव चैन्नयनवर्त्म कृतार्थयेथाः पापक्षयाय न तदेदृशमाचरिष्यम् ॥
प्रायोऽधुना तदुभयमभवाघशान्त्यै
प्राविक्षमार्य तुषपावकमात्तदीक्षः ।
भाग्यं न मेऽजनि हि शावर भाष्यवत्त्व-
द्भाष्येऽपि किंचन विलिख्य यशोऽधिगन्तुम् ॥ १०५
इत्युचिवांसमथ भट्टकुमारिलं तमीषद्विकस्वरमुखाम्बुजमाह मौनी ।
श्रुत्यर्थ कर्म विमुखान् सुगतान्निहन्तुं जातं गुहं भुवि भवन्तमहन्तु जाने ॥
संभावनाऽपि भवतो न हि पातकस्य सत्यं व्रतं चरसि सज्जनशिक्षणाय ।
उज्जीवयामि करकाम्बुकणोक्षणेन भाष्येऽपि मे रचय वार्तिकमङ्ग भव्यम् ॥
इत्यू चिवांसं विबुधावतंसं स धर्मविद्ब्रह्मविदां वरेण्यम् ।
विद्याधनः शान्तिधनाग्रगण्यं समश्रयं वाचमुवाच भूयः ॥
१०८
नामि शुद्धमपि लोकविरुद्धकृत्यं कर्तुं मयीड्य महितोक्तिरियं तवाह ।
आजानतोऽतिकुटिलेऽपि जने महान्तस्त्वारोपयन्ति हि गुणं धनुषीव शूराः ॥
संजीवनाय चिरकालमृतस्य च त्वं शक्तोऽसि शङ्कर दयोर्मिलदृष्टिपातैः ।
आरब्धमेतदधुना व्रतमागमोक्तं मुञ्चन् सतां न भविताऽस्मि बुधाविनिन्द्यः ॥