Proofing

This page has not been fully proofread.

178
 
श्रीमच्छङ्करदिग्विजये
 
इन्द्रोपेन्द्रमधानैस्त्रिदशपरिवृढैः स्तूयमानः प्रसुनै-
 
दिव्यैरभ्यर्च्यमानः सरसिरुहभुवा दत्तहस्तावलम्बः ।
आरुह्योक्षाणपत्र्यं प्रकटितसुजटाजूटचन्द्रावतंसः
 
[ षोडशः
 
शृण्वन्नालोकशब्दं समुदितगृपिभिर्धाम नैनं प्रतस्थे ॥ १०७
 
आदितः श्लोकाः 1843.
 
इति श्रीमाधवीये तच्छारदापीठवासगः ।
संक्षेपशङ्करजये सर्ग: पूर्णोऽपि पोडशः ॥
 
इति श्रीमद्विद्यारण्यविरचितः श्रीमच्छङ्करदिग्विजयः समाप्तः ॥